________________
१०।२]
अधिगमोपायनिरूपणम् ___अथ मतम्-विवक्षितजाग्रचित्तानुकारित्वदर्शनात् प्रबोधस्य तदेतदुपादानम् । तथाहिरुष्टस्य सुप्तस्य मूछितस्य वा तदनुरूप एव प्रबोधो लक्ष्यते, पुनः शस्त्रादिग्रहणादिना इति; तन्न; नियमाभावात् । कदाचित् प्रसन्नस्य व्यामोहवतो वा [प्रबोधस्य दर्शनात् । कदाचित् कथंचित] तदनुकारित्वम् अन्यत्रापि । तथाहि-गर्भ शुक्रशोणितसंपातानन्तरं कुतश्चिन् मृते पितरि कालान्तरादौ पुनरपत्यं जायमानं चेतसापि तदनुकारि प्रतीयते । अपि च, यदि दीर्घकाल- ५ व्यवहितमपि उपादानकारणम् ; ज्ञानस्य आलम्बनकारणं तथाविधं किन्न स्यात् ? भवतु को दोष इति चेत् ; भ्रान्त्यभावः, तैमिरिके अन्यदेशादेः केशोण्डुकादेः प्रतिभासनात् । व्यवहारी नैवं मन्यते इति चेत् ; व्यवहिता[त् ] जाग्रश्चित्ता[त् ] प्रबोधमप्यसौं न मन्यत इति [५१९ क] समानम् । न हि सुप्तस्य व्यवहारी मृतव्यवहार ना च चशति (रमारचयति) किन्तु विशिष्टाकारदर्शनात् चैतन्यमनुमिनोति । स्वयमनुपलक्षितं तत्तत्रं कथमस्तीति चेत् ? मानसमध्यक्षं तथाविधं कथमस्ति ? १० यथा तत् आगमे पठ्यते तथा स्वापादिचेतनापि। नचानयोरवस्थयोः विशेषः । सोक्ष्यं सोपगत् (स्वोपगत)मनुपलक्षितम् 'अस्ति' इति वदति न परोपगतमिति स्वेच्छाचारी ।
ननु नीलमिदं पीतमिदमिति निर्णयात्मकं मानसं प्रत्यक्षं लक्षितमेवास्ते इत्यपरः ; उक्तमत्रइन्द्रियव्यापारदशायां तत्कल्पने इन्द्रियजमेव तत् इत्यस्यैव नामान्तरकरणम् । न च अन्या रूपाद्यवभासिनी दशाऽस्ति, यत्कल्पना स्यात् । 'सत्यस्वप्नदशा' इति चेत् ; तत्र तर्हि पूर्व पश्चात् १५ चालु[षव्यापाराप्रतीतेः *"इन्द्रियज्ञानेन जनितम्" [न्यायबि० १।६] इति व्याहन्यते ।
कथमेवं योगिप्रत्यक्षं तत्प्रत्यक्षं न स्यात् ? अथ अभ्यासदशायां मानसं तदिष्यते ; तत्रेदं चिन्त्यते-प्राप्यभाविविषयम्, वर्त्तमानविषयं वा ? प्रथमपक्षे तदेव तत्र प्रमाणं नेन्द्रियजमिति अप्रामाण्यमस्य विकल्पवत् । इतरत्र मानसस्याप्रामाण्यम् अप्रवर्तकत्वात् । अपि[च,] वर्तमाने अक्षाणां व्यापारः तत्र मानसम', भाविनि न तव्यापारः तत्र इन्द्रियजम् इति व्याघातो महानिति । २०
स्यान्मतम्-इन्द्रियव्यापारावस्थायां प्रत्यक्षद्वयं मानसम् इन्द्रियजं च सदा प्रवर्तते इति ; तर्हि नैयायिकस्येव सौगतस्यापि अस्य सर्वदा द्विःप्रतिभासं[भवेत् ] रूपादीनाम् । अथ मनुषे यदुत अनिर्णयात्मना मानसेसि (सेन) [५१९ख] तिरस्कारादिन्द्रियज्ञानमविकल्पमनुपलक्षितमास्ते तथा स्वापादिसंवेदनं तथाविधं मिद्धादितिरस्कृतमस्तु इति साधूक्तम्-'स्वापादिबोधः' इति । स आदिर्यस्य संशयविपर्यासकरस्य स तथोक्तः तस्यातिचारणात् विज्ञानाभिमतात्म[ना]पि २५ प्रसज्येत इति ।
_ भवतु तस्यापि प्रामाण्यमिति चेत् ; अत्राह-तद् इत्यादि । तस्य [अ] किञ्चित्करादेः अविसंवादस्य नियमेन अवश्यंभावेन असंभवात् । अथवा तस्मिन् अविसंवादकस्य(दस्य)यो नियमः तस्याऽसंभवात् । स्यात्कारमन्तरेण अनभिमतात्मनाप (पि)प्रसज्येत इति । भवतु
(१) दीर्घकालव्यवहितम् । (२) व्यवहारी । (३) चैतन्यम् । (४) सुप्ते । (५) स्वयमनुपलक्षितम् । (६) मानसमध्यक्षम् । (७) "स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।"-न्यायबि० (८) मानसप्रत्यक्षम् । (९) स्वीक्रियते । (१०) चाक्षुषव्यापारः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org