________________
६६४
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः कारिकाविवरणं 'ज्ञानमेव' इत्यादि । ज्ञानमेव प्रमाणम् इत्यवधारणात् सन्निकर्षादेः। किंभूतस्य ? असंविदात्मनः मत्यज्ञानादेः व्युदासो निरासः प्रमाणत्वेन ।
ननु भवता अत्रानुग (त्राग) मानुसारिणा ज्ञानपदेन मत्यज्ञानादिकं निराक्रियते, सौगतादिना अभ्रान्तादिपदेन ततः तस्माद् भवतः को विशेष इति चेत् ? अत्राह-कार(स्यात्कार) मित्यादि । ५ स्यात्कारमन्तरेण मत्यज्ञानादेः कथंचित केनापि तच्छेदकविशेषेण (षण)प्रकारेण 'व्युदासे' इत्यनेन 'कोत्' सम्बन्धः । अत्र दूषणम्-अभिमतात्मनापि सौगतादिभिः येनात्मना स्वसंवेदनादिस्वभावेन मत्यज्ञानादेः प्रामाण्यमभिमतम् तेनापि न केवलं द्विचन्द्रादिरूपेण व्युदस्येत मत्यज्ञानादिरिति । विचारितं चैतत् । न चैवम् , अतः सर्वत्र स्यात्कारोऽपेक्षा (क्ष्य) इति भावः ।
ननु ज्ञाने प्रामाण्यं] नियंतमुपदर्शितं ज्ञानं त्वनियतम् [५१८ क]अप्रामाण्यमपि गच्छेत् ; १. तन्न युक्तम्-*"मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् । तत्प्रमाणे" ति० सू०
११९, १०] इति, इति चेत् ; अत्राह-ज्ञानं प्रमाणमेव इत्युभयावधारणमत्र इति भावः । एकान्तवादिनोऽप्येवं स्यादिति चेत् ; अत्राह-अनभिमत इत्यादि । 'स्यात्कारमन्तरेण' इत्यनुवर्तते । यतोऽयमर्थः-स्यात्कारमन्तरेण 'झनं प्रमाणमेव' इत्युच्यमाने येनात्मना तत्प्रमाण
मनभिमतं परस्य तेनापि प्रसज्येत प्रमाणमिति । कुतः १ इत्यत्राह-अकिश्चित्करादेः १५ इत्यादि । स्वापादौ बोधोऽकिश्चित्करः प्रवृत्त्यनङ्गत्वात् । मत्र (अंत्र) तदभावे प्रबोधोऽनुपादानः
स्यात् । जाप्रञ्चित्तोपादान इति चेत् ; समानसमयसुप्तपित्रादि विधो(दिचित्तो)पादानः कुतो नस्यात् ? भिन्नकालत्वात्; इतरत्र समानम् । भिन्नसन्तानत्वात्; अन्यत्रैकः सन्तान इति कुतः ? उपादानोपादेयभावात्; अन्योऽन्यसंश्रयः; तथाहि-विवक्षितजाग्रच्चित्तप्रबोधयोः एक
सन्तानत्वे सिद्धे सति उपादानोपादेयभावः, तत्र सति एकसन्तानत्वमिति । तत एव पितापुत्र२० जाग्रच्चित्तप्रबोधयोः एकः सन्तानोऽस्तु । तदभावान्नेति चेत् ; स कुतो मतः ? भिन्नसन्तानत्वात्; अयमपरोऽन्योऽन्यसंश्रयः- तदभावे भिन्नसन्तानत्वम् , अतश्च तदभावः । अथ भिन्नशरीरवर्तित्वात न जनकजाग्रच्चित्तं जन्यप्रबोधोपादानकारणम् ; तर्हि सुप्तशरीरचित्तात् स्वप्नान्तिकशरीरचित्तं तस्माच्च सुप्तदेहे चित्तम् स्वापशरीरप्रबोधचित्तं वाऽचेतनोपादानं स्यात् । कथं वा
ऐहिकदेहचित्तात् परलोकदेहचित्तम् ? २५ किंच, [५१८ ख] देवदत्तजाप्रत्सुप्तप्रबुद्धशरीरैकत्वं भेदैकान्ते [कथम् ?] उपादानो
पादेयभावात; अत एव अन्यत्राप्यस्तु । यदि पुनः भिन्नदेशयोः जनकापत्यशरीरयोः न उपादानोपादेयभावः; सुप्तस्वप्नान्तिकदेहयोर्न स्यात् । अन्यत्र सुप्तस्य अन्यत्र प्रबोधश्च, चित्तयो[:] भिन्नदेशयोरपि उपादानोपादेयभावो न शरीरयोः इति चिन्त्यमेतत् ।
स्यान्मतम्-पितृशरीरे तदवस्थ एव ततः कथम् उपादेयमपत्यशरीरं जायत इति"; कथं ३० सुप्तशरीरे तदुच्छ्वासादौ वा तवस्थे स्वप्नान्तिकशरीरोच्छ्वासादिकम् ? तन्न किश्चिदेतत् ।
(१) तद्व्यवच्छेदक । (२) 'कात्' इति व्यर्थमन्त्र । (३) निश्चितं प्रामाण्यम् । (४) स्वापादौ । (१) इति चेत् ;। (६) उपादानोपादेयाभावात्। () उपादानोपादेयभावः। (८) इति चेत् ; । (९) भवति । (१०) चेत् । (११) जायते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org