________________
१०१२] सदृशपरिणामात्मकं सामान्यम्
६६३ २।३।३६] इति निपातनं क्रियमाणं ज्ञापकम् तदनित्यत्वस्य इति उभयसिद्धेरिति । पुनरपि त[द्द्वैविध्यं दर्शयन्नाह-तच्छुद्धि इत्यादि । तेषां द्रव्य-पर्यायाणां स्तद्विश्च (शुद्धिः तच्छुद्धिः) द्रव्यस्य शुद्धिः पर्याय (या) निराकृतिः, पर्यायाणां शुद्धिः तेषां परस्परापेक्षा, तयोर्द्वन्द्वैकवद्भावेन नपुंस्त्वह्रस्वादेशः । तदेव तस्य वा भेदतश्च (भिदा भेदः) तया द्वेधा इति घटना । पूर्व सुनयापेक्षम्', इदं तु सुनयदुर्नयापेक्षं द्वैविध्यम् इति विशेषः । पुनरपि तेषामवान्तर- ५ भेदं दर्शयन्नाह-बहविधाः । अपि कियन्तः ? इत्याह-सप्त इति । 'द्रव्यपर्यायतः' इति वा अत्रापि द्रष्टव्यम् । सप्तस्वपि अवान्तरभेदोऽस्ति इति दर्शयन्नाह-आदित इत्यादि । सप्तानां नयानाम् आदौ आदितो ये चत्वारो नैगमप्रभृतयः अत्र लोके ते अर्थाश्रयाः अर्थप्रधानाः शेषाः शब्दादयः । कियन्तः ? त्रयं स्ते (ते) किम् ? [५१७ख] इत्याहशब्दतः शब्दमाश्रित्य प्रवर्तयन्त (र्तन्ते) इति । एतदेव वृत्तं विवृण्वन्नाह-ज्ञानम् इत्यादि ।
[ज्ञानं प्रमाणमित्याहुः नयो ज्ञातुर्मतं मतः ।
ताभ्यामधिगमोऽर्थानां द्रव्यपर्यायशालिनाम् ॥२॥ ज्ञानमेव इत्यवधारणात् सन्निकर्षादेरसंविदितात्मनः व्युदासः । स्यात्कारमन्तरेण मत्यज्ञानादः व्युदासे कथञ्चिदनभिमतात्मनापि व्युदस्येत । ज्ञानं प्रमाणमेवेत्युच्यमाने १५ अनभिमतेनापि प्रसज्येत अकिञ्चित्करादेरतिचारणात् तदविसंवादनियमाभावात् , अनधिगतार्थाधिगमलक्षणखात् । न्यस्य प्रमाणात्मकत्वे पृथग् वचनमनर्थकम् , अन्यथा कथं तेनाधिगमो नाम यतः प्रमाणनयैरधिगमः प्रतिपाद्येत , तन्न; ततस्तत्त्वाधिगमोपपत्तेः तत्परीक्षालक्षणखान्नयस्य । द्रव्यार्थिकपर्यायार्थिकद्वयविचारे सति परमार्थप्रतिपत्त्यविरोधात् ।]
२० ज्ञानम् इति वचनात् 'ज्ञानमेव' इति द्रष्टव्यम् , एवमन्यत्रापि, अन्यथा तद्वचनमनर्थकम्, प्रमाणम् इत्यस्य तं तं(मतम्) । नयमाह-एतन्मूलत्वात् नयो ज्ञातुः प्रमाणवतो मतम् अभिप्रायः मतः। किमर्थं प्रमाणनयनिरूपणमिति चेत् ? अत्राह-ताभ्यां प्रमाणनयाभ्याम् अधिगमो निर्णयः *"प्रमाणनरयधिगमः" [त० सू० १।६] इति वचनात् । केषां किंभूतानाम् ? इत्याह-अर्थानाम् इत्यादि ।
(१) सम्बन्धः । (२) द्वैविध्यमुक्तम् । (३) तुलना-"अस्थपप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तता । सहप्पहाणमत्थोवसजणं सेसया विति ॥"-विशेषा. गा० २७५३ । लघी० श्लो० ७२ । त० वा० पृ. २६१ । नयवि० पृ. २६२ । प्रमाणनय० ७॥४४, ४५। जैनतर्कभा० पृ० २३ । नयप्र. पृ० १०४ । (४) तुलना-"णाणं होदि पमाणं णओ वि णादुस्स हिदयभावत्थो । णिक्खेवो वि उवाओ जुत्तीए अत्थपडिगहणं ॥"-ति० प० गा० ८३ । “ज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते । नयो ज्ञातुरभिप्रायः युक्तितोऽर्थपरिग्रहः ॥"-लघी० श्लो० ५२ । प्रमाणसं० पृ. १२७ । उद्धृतोऽयम्-ध० टी० संत० पृ० १६ । (५) इत्यनेन सम्बन्धः। (६) प्रमाणमूलत्वात् । (७) अत्र 'किम्भूतानाम्' इति प्रश्नस्य उत्तरेण 'द्रव्यपर्यायशालिनाम्' इति भवितव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org