________________
[दशमः प्रस्तावः]
[१० अर्थनयसिद्धिः] प्रमाणसिद्धिविधानानन्तरं नयसिद्धिं विधित्सुः तदादौ तदर्थसंग्रहवृत्तमाह-ज्ञातणाम् इत्यादि ।
[ज्ञातॄणामभिसन्धयः खलु नयास्ते द्रव्यपर्यायतः,. द्वेधा द्रव्यमनन्तपर्ययपदं भेदात्मकाः पर्ययाः । तच्छुद्धिभिदया नया बहुविधाः सप्तादितोऽथाश्रयाः,
चत्वारोऽत्र च नैगमप्रभृतयः शेषास्त्रयं शब्दतः ॥१॥] प्रमाणेन प्रत्यक्षादिना स्वार्थं जानन्ति ज्ञातारः तेषाम् अभिसन्धयः प्रमाणप्रमितार्थंकदेशावसायकल्पाः खलु स्फुटं नयाः। नयसामान्यलक्षणमेतत् । तद्भेदमाह-ते नया द्वेधा
द्वाभ्यां प्रकाराभ्यां व्यवतिष्ठत (न्ते) इत्यध्याहारः । कुतः ? इत्याह-द्रव्य इत्यादि । द्रव्यतो १. द्रव्यमाश्रित्य पर्यायतः पर्यायाणोना (याना) श्रित्य द्रव्यार्थिकपर्यायार्थिकनया इत्यर्थः ।
द्रव्यस्वरूपमाह-द्रव्यम् अनन्तपर्ययपदम् अनन्ताः पर्यवसानरहिताः प[य]याः पर्यायाः परिणामा इत्यर्थः तेषां पदं स्थानम् । उपलक्षणमेतत्-तेन अनादिपर्ययपदम् इत्यपि ग्राह्यम् , अनेन नित्यैकरूपं द्रव्यमपास्तम् । निरूपितं चैतत् । तत् पर्यायाणां पदम् इत्यनेन तेषां स्वातन्त्र्यं निषेधति । तद्व[द्]द्रव्यस्य किं पदम् ? द्रव्यान्तरम् इति चेत; तस्यापि तदन्तरम् इत्यनवस्था । १५ स्वतन्त्रं तदिति चेत् ; पर्यायाः तथा सत्त विशेषाहेतु (सन्तु विशेषहेत्व)भावादिति चेत् ;
उक्तमत्र-चित्रैकज्ञाने नीलादिनिर्भासवत् परतन्त्राणां सदा तेषामवभासनात् तज्ज्ञानवदेव । न च तस्य अवश्यम् अपरस्थानान्वेषण (णं). न्यायोपपन्नम् । अनादिपर्ययपदम् इत्यनेन जीवादेव्यस्य सादित्वं प्रत्याचष्टे । [५१७ क] अनन्तपर्ययपदम् इत्यनेनापि प्रदीपादेः तत्त्वम् ,
उभयत्रोक्तप्रमाणबाधनात् । २ नंनु यदा द्रव्यादयो भिन्नाः समवायेन च तत्र वर्तन्ते, तदापि तेषां तत्पदम् , तत्कुतोऽस्य
व्युदास इति चेत् ? अत एव, द्रव्यपर्यायसमवायानाम् अन्योऽन्यं भेदैकान्ते 'किं कस्य पदम्' इति न निश्चयहेतुरस्ति । पर्यायस्वरूपमाह-भेदात्मकाः भेदः परस्परठ्यावृत्तिः आत्मा स्वरूपं येषां ते तथोक्ताः पर्याया (पर्ययाः)इति परियन्ति भेदम् इति व्युत्पत्तेः । ननु पर्याया
इति निपातनं बाधकमिति तदसिद्धिरिति चेत् ; न; *"पर्या[या होत्पत्तौ वुन्" [जैनेन्द्र० २५ २।३।९२] इत्यत्र पर्याय इति निपातनात् । सिद्धावपि *"न्यायपरिणायपर्यायः" [जैनेन्द्र०
(१) द्रव्यम् । (२) पर्यायाणाम् (३) पर्यायवत् । (४) पर्यायाणाम् । (५) सान्तत्वं प्रत्याख्यातं भवति । (६) जीवादिद्रव्यस्य सादित्वे, प्रदीपादेः सान्तत्वे च । (७) नैयायिकः प्राह ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org