________________
६७४
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः स्यान्मतम्-अर्थस्य स्वतःसद्भावे अपरसामान्याभावः सत्तादिवत् स्यादिति ; न ; उक्तमत्र- चित्रत्वाद्भावानाम् । कस्यचित् स्वतः सतोऽपरजातिः न शब्दस्य तथाऽदर्शनात् गुणादियोगवत् । ननु न सर्वस्य स्वतोऽसतो दर्शनमिष्यते किन्तु सत्तासम्बन्धिन इति चेत् ; अत्राहयदि पुनः इत्यादि । तयोः सत्तासमवाययोः नित्यत्वात् । उपलक्षणमेतत् व्यापित्वा[त्'] ५ च उत्सन्ना नष्टा इदानीमभाववार्ता खरविषाणादीनामपि [५२५ख] सत्त्वापत्तेः, यत एवं तन्नेयं परकीया वाचोयुक्तिरुपपद्यते इत्युपसंहारः। एतदन्यत्रातिदिशन्नाह-सत्तावत इत्यादि । सत्तायामिव सामान्यान्तरेषु द्रव्यत्वादिषु अयम् अनन्तरः समानश्चः परीक्षा । तथाहि-जीवादीनां द्रव्यादिस्वभावोपलब्धौ किं द्रव्यत्वादिना भिन्नेन ? स्वयमद्रव्या
दीनां द्रव्यत्वाद्यदि (त्वादि)सम्बन्धे नाद्रव्यादिः कश्चित् स्यात् । शेषमत्रापि समानम् । २० तन्न इत्याद्युपसंहारः । कुतः ? इत्याह-परस्पर इत्यादि ।
सांप्रतं सांख्य नैगमाभासं दर्शयन्नाह-द्रव्यं शुद्धम् इत्यादि ।
[द्रव्यं शुद्धमशुद्धं च संश्रित्यान्योऽस्ति नैगमः ।
चित्प्रधानप्रपञ्च न यथा लक्ष्यत दुर्णयः ॥१०॥
चिच्छक्तरात्मनोऽदर्शितविषयवतो नानात्वमेकवच ममाश्रित्य प्रधान कार्यकारण१५ भावमासाद्य महदादिक्रमेण विवर्तमानमात्मानं तदर्थं समर्पयति इति नैगमो
दुर्णयः, प्रधानपुरुषयोः परिणामस्वभावव्यवस्थापनात् । तदेकपुरुषमनेकपुरुषं च अनी· श्वरेतरभेदात् भिद्यते । प्रधानस्य पुरुषार्थिप्रवृत्तिसंभवेन अनीश्वरभेदः तत्प्रवृत्तेरसंभवेन सेश्वरभेदः ; अपरिणामिनश्चैतन्यस्य वस्तुत्वं प्रत्युक्तम् सामान्यादिना । कादाचित्कम् कुतः । हर्षविषादाद्यनेकाकारविवर्तज्ञानवृत्तेः प्रकृतेरपरां चैतन्यवृत्तिं कः प्रेक्षावान् २० प्रतिजानीते १ अनुपयोगात् । प्रकृतदर्शितविषयवतः पुरुषस्य अविकारित्वविशेषतो
दुरन्वयम् । पुरुषस्य भोक्तृस्वभावनित्यात्वे प्रकृतेः भोग्यात्मनो नित्यत्वे सति तत्प्रवृत्तिनिवृत्ती इति दुरन्वयम् । प्रकृतेः परिणामे वा चिच्छक्त रपि विवर्तः तद्दर्शितविषयत्वात् । अचेतनभेदानां सुखदुःखमोहात्मकप्रधानमित्यभिधानात्मा जातिः प्रकृतिरेव, न पुनः
सर्वपुरुषाणां संवेदनजातिः सामान्यमिति दुरन्वयमेतत् । तन्नः ''] २५ द्रव्यं पुरुषरूपम् , किंभूतम् ? शुद्धम् सुखादिभेदरहितम् अशुद्धंच महदादिपर्यायपरिकरितं द्रव्यं प्रधानलक्षणं संश्रित्य अन्यो नैयायिको (क) नैगमात् भिन्नोऽस्ति नैगमः चित्पुरुषः । प्रधानं मूलप्रकृतिः तयोः प्रपञ्चेन । कथमस्ति इह ? यथा येन प्रमाणानुपपन्नत्वप्रकारेण लक्ष्येत निश्चीयेत दुर्णयः तथास्ति ।
___ कारिकार्थं कथयन्नाह-चिच्छक्तिः(चिच्छक्तेः) इत्यादि । प्रधानं कर्तुं समर्पयति । ३० कस्य ? इत्याह-आत्मनः पुरुषस्य । किंभूतस्य ? इत्याह-चिच्छक्तेः चित् चेतना शक्तिः
(१) इत्यपि गृह्यते । (२) प्रकृतिः प्रधानं बहुधानकम् इत्यादिना व्यपदिश्यमानमित्यर्थः । (३)
आद्यकारणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org