________________
१०१९ ]
सांख्यनैगमाभासः
६७५
स्वभावो यस्य तस्य चिच्छक्तेः “ चैतन्यं पुरुषस्य स्वरूपम् " [ योगभा० १1९] इति वचनात् । किं कृत्वा ? इत्याह- समाश्रित्य अवलम्ब्य । किम् ? इत्याह- नानात्वम् * " पुरुषबहुत्वं सिद्धम् " [ सांख्यका० १८] इत्यादिवचनात् त्रिदण्डिमतत् (म्) । एकत्वं च 'आत्मनः ' इत्युभयत्र सम्बध्यते । एकदण्डिदर्शनमिदम्
*" एकमेकं हि (एक एव हि ) भूतात्मा भूते भूते व्यवस्थितः । एक वा(धा)नेक वा (धा) चैव दृश्यते जलचन्द्रवत् ॥”
[० बि० ११]
1
इति वचनात् । पुनरपि किंभूतस्य [५०६क ] तस्य ? इत्याह- अदर्शित इत्यादि । इन्द्रियवृत्तिदर्शित विषयवतः साक्षाद्विषयादर्शित (शिन) इत्यर्थः । किं समर्पयति ? इत्याह- आत्मानं स्वस्वरूपम्। किं कृत्वा ? इत्याह- आसाद्य लब्ध्वा । किम् ? कार्यकारणभावम्, अनेन हेतुफलै - १० क्यमाह । तदेव दर्शयन्नाह - विवर्त्तमानमिति । केन क्रमेण ? इत्याह- महानित्यादि । *" प्रकृतेर्महान् " [सांख्यका० २२] इत्यादि । किमर्थम् ? इत्याह- तदर्थम् आत्मोपभोग्यार्थम् इत्येवं दुर्णयः । किन्नाम ? इत्याह - नैगमः इति । कुतः ? इत्याह- प्रधानपुरुषयोः इत्यादि । प्रधानस्य [पुरुषस्य च] परिणामस्वभावस्य व्यवस्थापनात् । पुनरपि किंभूतम् प्रधानम् ? इत्याह-तदित्यादि । तत् प्रधानम् एकपुरुषम् एकपुरुषभोग्यम् अनेकपुरुषम् अनेक पुरुषभोग्यम् १५ इत्यर्थः । च इति समुच्चये । पुनरपि प्रधानभेदं कथयन्नाह - अनीश्वरेतरभेदाद् भिद्यते इति 'तत्' इत्यनुवर्त्तते । तत् प्रधानं भिद्यते । कुतः ? अनीश्वरभेदात् न विद्यते ईश्वरः प्रवर्त्तको यस्य *'वत्सविवृद्धिनिमित्तं ते चेतनं यथा क्षीरम्" इत्यादि वचनात् तस्यविशेषात् । इतरभेदात् शश्वदविशेषात् *"अज्ञो जन्तुरनीशोऽयम्" [महा० वनपर्व ३०।२८] इत्याद्यभिधानात् । अज्ञोऽचेतनो जन्तुः प्रकृतिरेव इह उच्यते । कुतः सः भेदः ? इत्याह- प्रधानस्य इत्यादि । प्रधा- २० नस्य विचेतनस्य पुरुषार्थिप्रवृत्तेः संभवेन 'स्वत:' इत्यध्याहारो [ऽनी] श्वरभेदः तत्प्रवृत्तेरसंभवेन सेश्वरभेदः । कुतः स 'दुर्णय:' इत्यध्याहार : ? [ अ ] परिणामिन इत्यादि । परिणामविकलस्य चैतन्यस्य पुरुषस्य वस्तुत्वं प्रत्युक्तम् अपाकृतम् । केन ? इत्याह - सामान्यादिना जात्यादिदूषणेन । न केवलमेतदेव प्रत्युक्तम् [ ५२६ख] अपि तु परमपि इत्याह- कादाचित्कम् इति हेतोः । न हि अपरिणामिन एकदा विषयानुभवनम्, अन्यदा तद्विपर्ययो युक्त इति विचारितम् । २५ ततः किं जातम् ? इत्याह- कुतः इत्यादि । स्पष्टम् ।
अधुना चैतन्यस्य सतोSपि वैफल्यं दर्शयन्नाह - हर्ष इत्यादि । प्रकृतेः सकाशादपराम् अन्यां चैतन्यवृत्तिं विषयानुभवलक्षणां कः प्रेक्षावान् प्र (प्रा) माणिकः प्रतिजानीते । किंभूतायाः प्रकृतेः ? इत्याह- - हर्षविषादाद्यनेकाकारो विवर्त्तः परिणामो यस्य तत्तथोक्तम् तच तज्ज्ञानं
(१) "एक एव हि भूतात्मा एकधा बहुधा चैव " - त्रि० ता० ५१२ । (२) 'ततोऽहङ्कारः तस्माद्गुणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥' इति शेषः । ( ३ ) " वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ " - सांख्यका० ५७ । ( ४ ) ‘आत्मनः सुखदुः खयोः। ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ।' इति शेषः । (५) विषयानुभवरहितत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org