________________
६७६
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः च तदेव वृत्तिः वर्त्तनं यस्याः तस्या इति । कुतो न प्रतिजानीते ? इत्याह-अनुपयोगात् चैतन्यशक्तः क्वचिद् व्यापाराभावात् , तत्प्रयोजनस्य प्रकृत्या करणात् । 'विशेषतः' इत्यादिना पुनरपि तत्र दोषं योजयन्नाह-विशेषेण विशेषतः । अनेन पूर्वदोषादस्य अतिशयमाह-प्रकृत्या दर्शितो दर्शनगोचरतां नीतो यो विषयः तद्वतः तदनुभवतः पुरुषस्य अविकारित्वं दुरन्वयम् ५ अप्रमाणम् , एवं मन्यते-सरसि अपरापरतारानिकुरुम्बस्येव पुंसि प्रकृतिदर्शिताऽपरापरविषयं (य)प्रतिभासनमेव तस्याविकारित्वमिति युक्तं यदि तत्र प्रमाणं प्रवर्तेत, वचनमात्रकात्तदसिद्धि(द्ध)रिति । - परमपि तत्र दुरन्वयं कथयन्नाह-तो कृत्स्व(भोक्तस्व) भावनित्यत्वे दर्शनरूपनित्यत्वे
पुरुषस्य प्रकृते ग्यात्मनो दृश्यभावस्य नित्यत्वे सति तस्याः प्रवृत्तिः संसारदशायां १० निवृत्ति[:] निर्वाणे इति दुरन्वयमेतत् , [५२७क] सर्वदा दर्शनमदर्शनं वा स्यादिति भावः ।
दूषणान्तरमाह-प्रकृतेः इत्यादि । प्रकृतेः परिणामे वा भोग्यस्वभावपरिहारेण अभोग्यस्वभावविकारे वा चिच्छक्तेरपि पुरुषस्यापि विवर्तः भोक्तृस्वभावपरिहारेण अभोक्तृस्वभावपरिणामः । कुतः ? इत्याह-तद् इत्यादि । तया प्रकृत्या दर्शितो विषयः स यस्यास्ति तस्य
भावात् तत्त्वात् । एतदुक्तं भवति-यथा यदा पुरुषेण युज्येत प्रकृति[:] तदैव तस्या भोग्यता १५ नान्यदा, तथा यदा प्रकृत्या पुंसो विषयः प्रदर्श्यते तदैव तस्य भोक्तृता, विशेषाभावादिति ।
एवं पुरुषं निराकृत्य अधुना प्रकृति निराकुर्वन्नाह-सुख इत्यादि । जातिः प्रकृतिरेव, किंभूता ? सुखदुःखमोहात्मकप्रधानम् इत्यभिधानात्मा । केषाम् ? इत्याह-अचेतनभेदानाम न पुनः संवेदनजातिः सर्वपुरुषाणां सामान्यमिति दुरन्वयमेतत् । एतेन प्रधानसाधनानां भेदानां परिमाणादिहेतूनां व्यभिचारमाह । 'तन्न' इत्यादि उपसंहारः ।
परमपि नैगमाभासं दर्शयन्नाह-तथा इत्यादि । [तथा,
सत्ता द्रव्यत्वगोत्वादिसामान्यव्यपदेशभाक् ।।
समवायिविशेषैः स्यादेकसामान्यवादिनाम् ॥११॥
विना''व्यापित्वे 'भावस्यैव सामान्यविशेषभावोपपत्तेः समवायिविशेषात् ; २५ सत्तासमवायिनोर्भेदैकान्ते अयमपि परः नैगमो दुर्णयः ।
तमेव दर्शयन्नाह-सत्ता इत्यादि । सत्ता स्याद् भवेत् । किंभूता ? द्रव्यत्वे(त्व)गोत्वादिसामान्यस्यपदेस(न्यव्यपदेश)भागिति । कैः ? इत्याह-समवायिविशेषैः। सत्तायाः समवायो येषामस्ति द्रव्यादिखण्डादीनां ते समवायिनः, तेषां ते वा विशेषाः तैरिति । तदुक्तम्
(१) प्रकृतेः । (२) पुरुषस्य । (३) “भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥"-सांख्यका० १५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org