________________
६७७
१०।१२-१३]
संग्रहनयस्वरूपम् "तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा यामाहुः त्वतलादयः ॥" [वाक्यप० ३।३४] इति ।
ननु यत्रअवान्तरे (र)गोत्वादिजातयः समवेता[:] तत्रैव सत्ता, [५२७ ख] तस्मादेकार्थसमवायात सा तव्यपदेशभागिति चेत् ; अत्राह-विना इत्यादि ।
ननु यौगपक्षोपक्षिप्तमत्र दूषणं कुतो नेति चेत् ? अत्राह-व्यापित्वे इत्यादि । विचारि- ५ तमनन्तरमिति । दोषानुषङ्ग एव न भवति एकसामान्यवादिनां सत्ताजातिवादिनाम् । कुतः ? इत्याह-भावस्यैव सत्ताया एव सामान्यविशेषभावोपपत्तेः द्रव्यत्वगोत्वादिसामान्यभेदोपपत्तेः । कुतः ? इत्याह-समवायिविशेषात् सोणादि (गोत्वादि) व्यपदेशभाक्त वा (भाक्तया) प्रकृतापि इति सत्तासमवायिनोर्भेदैकान्ते अयमपि दुर्णयः । पूर्वविधिना अत एव उक्तम् तथा तेन प्रकारेण परोऽन्यो नैगमो दुर्णय इति । संप्रति सौगतेन नैगमस्य सर्वस्य दुर्णयत्वं चिन्तितं दूषयन्नाह-सत्ताम् इत्यादि ।
[सत्तां बिभ्रते यस्माज्ज्ञानशब्दकृतः इति ।
व्यक्तयः सन्तु तस्मादाकारे विदां समम् ॥१२॥ येन 'इति यत् चोद्यं तत् संविदां विषयाकारप्रतिपत्तावपि सामानम् ।]
यद् यस्माद योग्यताविशेषात् व्वक्तयो विशेषाः बिभ्रते धारयन्ति । किम् ? सत्तां १५ जात्यन्तरं वा गोत्वादिकं त[स्मात्] योग्यताविशेषात् ज्ञानशब्दकृतोऽनुगतज्ञानाभिधानप्रवृत्तिहेतवः सत्त (सन्तु) व्यक्तयः इत्येवं चोद्यम् अर्थाकारे रूपादिलक्षणे ग्राह्ये विदा बुद्धीनां समम् । तथाहि-यतः पटादयोऽर्थाः रूपादीन बिभ्रते तत एव स्वयमतदात्मानो' रूपादिबुद्धिहेतवो भविष्यन्तीति किं रूपादिकल्पनया ? इति निराकारार्थसिद्धिः । अथ रूपाद्यात्मकोऽर्थः प्रतीयते; सामान्यात्मकोऽपि प्रतीयते इति समानम् । ___कारिकार्थमुपदिशन्नाह-येन इत्यादि । सुगमम् । इति एवं यच्चाद्यं न (यच्चोद्यं तत्) संविदां विषयाकारप्रतिपत्तावपि समानम् [५२८ क] अन्यत्रापि असकृदुक्तमेतत् । तथाहिसंविदो यतः स्वसंवेद' यतः स्वसंवेदनात्मतां स्वीकुर्वन्ति तत एव अतदात्मिका सु (काः त)थावभासन्त इत्यपि स्यात् । तदेव(व) नैगमं तदाभासं च प्रतिपाद्य संग्रहनयं प्रतिपादयन्नाह-आयासाद्वा इत्यादि। २५
[आयासाद्वा यतो भेदानभेदः स्वीकरोत्ययम् ।
स एव भेदसंव्यवहारान केवलो न करोति किम् ॥१३॥ न हि अभिन्नतत्त्वस्य ‘स्वप्नादौ दर्शनात् । भेदवादिनोऽपि निरंशमवर्णाद्यात्मकं तज्ज्ञानं रूपादिकं स्थूलत्वाद्यनेकधर्माभिन्नं सांशमिव तद्व्यवहारं प्रथयत्येव
(१) सत्ता । (२) रूपादिरहिताः । (३) 'यतः स्वसंवेद' इति पुनलिखितमाभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org