________________
६७८
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः तत्त्वदर्शनस्य सर्वथानुपपत्तेः । प्रमाणेतरनिमित्तभूतौ संवादविसंवादावपि तत्र अविशेषतः स्याताम् । तत् सर्वविकल्पातीतं सन्मानं तत्त्वमिति संग्रहनयः। संवित्तेरेव बहिरिव प्रतिभासनात् , तत्पुनरदृष्टपरमार्थमेव मिथ्या । तत्र स्वपरसन्तानक्षणक्षयविकल्पव्यवस्थेयं अविद्यात्मनः आभासेत बहिरावभासवदिति । तदर्थासंभवेऽपि विप्लवान्तर५ वत् । पारम्पर्येणापि चेतनान्तरसंभवनियमः कुशकाशावलम्बनम् व्यापारादिभावात्तन्नियमः। 'प्रतिषिद्धार्थप्रतिप्रसवप्रसङ्गात् बहिरन्तर्भेदात् ।]
आयासाद्यन्ताद्यतो(-सात् यत्नतःयतो) वा इति पक्षान्तरद्योतकः,भेदान् चेतनेतरविशेषान् अभेदः सत्तामात्रं स्वीकरोति अय(अयं) भेदसंव्यवहारान् किं न करोति
सोऽभेदः केवलः सकलभेदविकलः । १० ननु यदि अभेदः; भेदव्यवहारः ततः कथम् ? अन्यथा नीलात् पीतव्यवहारः स्यात् इति चेत् ; अत्राह-नहि अभिन्नतत्त्वस्य इत्यादि । कुतः ? इत्यत्राह-स्वप्नादौ दर्शनात् । अत्र आदिशब्देन द्विचन्द्रादिपरिग्रहः । स्वप्ने हि कृशोऽपि स्थूलतया, अन्यकालादिः अन्यकोलादितया, देवदत्त एकोऽपि अनेकतया, जागरणे चन्द्रः तथा सुत्ति काने (शुक्तिका अने) कतया
प्रतिभातीति भावः । परस्यापि एतदस्तीति दर्शयन्नाह-भेदवादिनोऽपि न केवलमभेदवादिनः १५ तज्ञानं (तज्ज्ञानं) भेदवादिज्ञानम् ; किंभूतम् ? निरंशम्, पुनरपि किंभूतम् ? अवर्णाद्यात्मकं
रूपरसादिरहितम् , रूपादिकं स्थूलत्वाद्यनेकधर्माभिन्नं न च निरंशे तद्युक्तम् । किं करोति ? इत्याह-तद्वयवहारं भेदव्यवहारं प्रथयत्येव । किंभूतम् ? सांशमिव वर्णादिनिर्भासमिव, [च] शब्दोऽत्रापि योज्यः ।
ननु यथा भेदः प्रतिभाति नैवमभेदः, ततोऽस्त्यनयोः विशेष इति चेत् ; अत्राह-तत्त्व २० इत्यादि । तत्त्वस्य निरंशात्मनो यदर्शनं तस्य सर्वथा सर्वेण प्रत्यक्षादिप्रकारेण स्वतः परतः [५२८ ख] इति वा प्रकारेण अनुपपत्तेः । कल्पनया तदुपपत्तिः, उभयत्रापि ।
स्यान्मतम्-त ज्ञानं (तज्ज्ञान) निरंशमवर्णाद्यात्मकं तथैव [व्यवहारं प्रथयति इति; तत्राह-तत्त्व इत्यादि । व्याख्यानम् तदेव । यदि वा, यदि ज्ञानं सांशमेव वर्णादिनिर्भासं
व्यवहारं प्रथयति तथैव तदिति तत्त्व[म्] इत्यादि सौगतस्य यत्तस्य दर्शनस्य सर्वथानुपपत्तेर्वा २५ 'भेदवादिनोऽपि' इत्यादिना सम्बन्धः ।।
ननु यदि अभेदः तर्हि जाग्रहशायामविसंवादोयः प्रमाणव्यवस्थानिमित्तं स्वप्ने यश्च विसंवादोऽप्रमाणव्यवस्थाकारणं तौ कथं स्याताम् ? भेदे तस्या (न स्या) तामिति चेत् ; अत्राह-संवाद
(१) तुलना-"स्वजात्यविरोधेनैकध्यमुपनीय पर्यायानाक्रान्तभेदान् अविशेषेण समस्तग्रहणात् संग्रहः ।"-स. सि. १॥३३ । त० वा. १॥३३ । तत्त्वार्थाधि० भा० १॥३६ । “शुद्धं द्रव्यमभिप्रैति संग्रहस्तदभेदतः। भेदानां नासदात्मैकोऽप्यस्ति भेदो विरोधतः ॥"-लघी० श्लो० ३२ । धवलाटी० सत्प्ररू. । त. श्लो० पृ०७० । नयवि० श्लो० ६७ । सन्मति० टी० पृ० २७२ । नयचक्र० गा० ३४ । तत्त्वार्थसा० पृ० १०७ । प्र० नय० ७।१३ । स्या० म०पृ० ३११। जैनतर्कभा० पृ. २२ । “संगहिय पिंडियत्थं संग्रहवयणं समासओ विति ।"-अनु० द्वा० ४ । आ० नि० गा० ७५६ । विशेषा० गा० २६९९ । (२)अर्धरात्रे मध्याह्नस्वप्नदर्शनं भवति । (३) भेदाभेदयोः । (४) अविसंवाद-विसंवादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org