________________
६७९
१०.१३ ]
संग्रहनयस्वरूपम् इत्यादि । संवादासंवादौ । किंभूतौ ? प्रमाणेतरनिमित्तभूतौ यथासंख्येन प्रमाणाप्रमाणहेतुभूतौ तत्र तयोः भेदाभेदयोः स्याताम् । कुतः ? इत्याह-अविशेषतः वासनादााऽदाय(ा) भेदतः । यत एवं तत् तस्मात् सर्वविकल्पातीतं तत्त्वम् । किं तत् ? इत्याह-सन्मात्रम् इत्येवं संग्रहनयः । अत्र यदुक्तं सौगतेन दूषणम् *"कथं बहिरन्तः प्रतिभासभेदे सन्मात्रं तत्त्वम् ? तद्विभ्रमे सन्मात्रे कः समाश्वासः" इति; तदेग (तदेतत्) तस्यापि' समानमिति ५ दर्शयन्नाह- संवित्तेरेव इत्यादि । भेदवादिनो बौद्धस्य विज्ञप्तिमात्रं बुद्धिमानं तत्त्वं यथा संग्रहवादिनः सन्मात्रम् ।
ननु तस्य बहिरन्तर्वा भेदोऽप्यस्ति इति चेत् ; अत्राह-संवित्तेरेव नान्यस्य बहिरिव प्रतिभासनात ततो यथा अस्याऽबाह्यमपि बाह्यतया चकास्ति तथा परस्य अभिन्न भिन्नतया [४२९क] इति मन्यते ।
___स्यान्मतम्-यथा विज्ञप्तिमात्रं दृश्य (श्यं) न तथा अन्यदिति चेत् ; अत्राह-तद् विज्ञप्तिमात्रं पुनः अदृष्टपरमार्थमेव । नहि निरंशं भ्रष्टं (द्रष्टुं) शक्यम् , अन्यत्रापि प्रसङ्गात् । तत्किम् ? इत्याह-मिथ्या इत्यादि । ततो यथा भेदव्यवहारस्य मिथ्यात्वेऽपि न संवित्तेसत् (त्तेः तत्) तथा अन्यत्रापि इति भावः।
ननु विज्ञप्तिमात्रे स्वपरसन्तानभेदः क्षणक्षयादिभेदश्च पारमार्थिक इति चेत् ; अत्राह-तत्र १५ इत्यादि । तत्र विज्ञप्तिमात्रे स्वपरसन्तानाश्च क्षणक्षयश्च ते एव तेषां वा विकल्या भेदाः, यदि वा, मानसाः प्रत्ययाः, तेषां व्यवस्थेयं (य)माभासेत । कुतः ? इत्याह-[अ] विद्यात्मनः [अ] विद्यास्वभावात् कुतश्चिद् विकल्पवासनातः, तत्र परस्य प्रमाणाभावात् । अत्र निदर्शनमाहबहिरावभासवदिति । निदर्शनसमर्थनमाह-तदर्थासंभवेऽपि इत्यादि । जाग्रद्व्यापारादिविप्लवात् स्वप्नादितद्विप्लव सुदतरी (वस्तदन्तरम्) तत्रेव तद्वदिति ।
२० ___ ननु जाग्रहशायां साक्षाद् व्यापारादिनिर्भासः, परचेतसः शरीरान्तरे स्वप्ने परम्प[र]येत्यव्यभिचार इति चेत् ; अत्राह-'पारम्पर्येणापि' इत्यादि । चेतनान्तरसंभवे (व)नियमः सन्तानान्तरचेतनेयोः (तनायाः) सकाशात् संभवस्य उत्पादस्य नियमः कुशकाशावलम्बनम् । कस्यास्तनि (कस्मात्तन्नि) यमः ? इत्याह-व्यापार इत्यादि । केन प्रकारेण सः ? इत्याह-न केवलं जागरणे साक्षात्तस्याः तन्नियमः, तदवलम्बनस्वशरीरेऽपि निरंशबुद्धिव्यापारयोरन्वयग्रहणाभावात् २५ सकलव्याप्तेरसिद्धेः प्रमाणविरहात्, स्वापादौ चैतन्याभावेऽपि व्यापारादिभावात् , शालूकादि (दे:) [५२९ख] शालूकादिभ्यो दृष्टावपि पुनर्गोमयादेः दर्शनात् संभाव्यव्यभिचारित्वात्, व्यापारप्रतिभासस्य सर्वत्रार्थप्रतिभासवद्भ्रान्तत्वात् , अपि तु पारम्पर्येणापि जागरणे साक्षात् चेतनान्तरः तस्यास्तन्नियमः स्वप्ने पारम्पर्येण बुद्धरेव तद्बुद्धिसंभवात् , तद्विभ्रमस्तदवलम्बते उक्तदोषेण अनुमानाप्रवृत्तः, शरीरप्रभृतेः सर्वस्य भ्रान्तत्वाच्च । कुतः ? इत्याह-प्रतिषिद्धार्थ इत्यादि । ३० प्रतिषिद्धः सौगतेन निराकृतो योऽर्थः अचेतनो घटादिः तस्य प्रतिप्रसवः प्रत्युज्जीवनं तस्य
(१) बौद्धस्यापि । (२) अभेदवादिनः । (३) मिथ्यात्वम् । (५) शालूकः वृश्चिकः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org