________________
६८०
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः प्रसङ्गात् । एतदपि कुतः ? इत्याह-बहिरन्तभदाद् बाह्येतरभेदसिद्धिरिति भावः । तथाहिखबपुषि बुद्धिव्यापारयोः परमार्थतो यदि कुतश्चित् हेतुफलभावः प्रतीयते ; व्यक्तं ग्राह्यग्राहकभावः समापतति ।
एतेन व्याप्तिग्रहणमपि चिन्तितम् । 'वासनातः सकलं ज्ञानम्' इत्यत्रापि न्यायोऽयं योज्यः । ५ ननु अर्थः प्रतिभासात् सिध्यति, सं च स्वप्ने तदभावेऽपि भवन्ननैकान्तिक इति चेत् ; न; व्यापारादिरपि तथैव स्यादिति दोषात् , तत्रास्य पारम्पर्येण परचेतसः सभावो (सद्भावो) नार्थप्रतिभासस्य इतिं किंकृतमेतत् ?
अपरे मन्यन्ते-तत्रापि स्वप्नान्तिकशरीरस्य परमार्थतोऽभ्युपगमात् साक्षात् परचेतस एव स इति; तेषां तत्र स्तम्भादिप्रतिभासोऽपि सत्य इति *"कल्पनापोडमभ्रान्तं प्रत्यक्षम्" १० न्यायबि० १।४] इति अभ्रान्तग्रहणमनर्थकं निवाभावात, तँच्छरीरवत् द्विचन्द्रादेरपि
[४३०क] सत्यताप्राप्तः । व्यवहारेण अभ्रान्तग्रहणमिति चेत् ; न ; तेनैव तच्छरीरस्यापि सत्यत्वोपगमात् , व्यवहारेण परलोक साधनात् , इतरथा कुतः प्रतिभासाद्वैतम् ? *"निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययखात्" [प्र० वार्तिकाल० पृ० ३६१] इत्यत्र वा किं वा निदर्शनम् ?
स्वरूपालम्बनत्वेऽपि अनेकान्तार्थप्रति स्य बद्ध (प्रतिबद्ध)स्य प्रतिप्रसवप्रसङ्गः, शरीरादेः सांशत्वेन १५ प्रतिभासनात् । ततो न किंचिदेतत् ।
अन्येषां दर्शनम्-न सन्तानः सन्तानान्तरं वा अन्यत्र संवृतः इति तेदभावसाधनं सिद्धसाधनमिति, तेषामप्युत्तरमुक्तम् नेह पुनरुच्यते, चित्रज्ञाने नीलादीनाम् अन्योऽन्याननुगमे सन्तानान्तरसिद्धिः । परस्परादर्शनेऽपि सद्भावे इतरथा सकलशून्यता, तदनुगमे अनेकान्तसिद्धि
रिति । तन्न परस्य स्वर (स्वपर) सन्तानादिभेदसिद्धिः। २० कचिद् 'बहिर[रन्त] भेदात्' इति पाठेत्र (पाठे तु) बाह्य तरयोरविशेषादित्यर्थः ।
स्यान्मतम्-प्रागभावादिचतुष्टयप्रतीतेः कथं सन्मानं तत्त्वमिति ? तत्राह-विज्ञेयम् इत्यादि ।
[विज्ञेयं विद्यमानार्थबुद्ध्याऽभावचतुष्टयम् ।
कथञ्चिन्नान्यथा न्यायाद् बुद्धिः सन्मात्रगोचरा ॥१४॥ २५ नहि अभावचतुष्टयज्ञानं सर्वथा निर्विषयं युक्तम् , अर्थान्तरालम्बनोपगमात् ।
सः परमाणुपर्यन्तज्ञानस्वरूपपरीक्षासमये स्वरूपमवलम्बेत नार्थभेदम् । तदभावे संविद्व्यपदेशानुपपत्तेः । तन्न भावव्यतिरेक्तो विशेषः क्वचित् कथञ्चित् प्रमेयतां प्रतिपद्येत ।]
विज्ञेयं परिच्छेद्यकम्(यं । किम् ?) अभावचतुष्टयं प्रागभावाद्यभावचतुष्टयम् । कया ? विद्यमानार्थबुद्ध्या भावज्ञानेन । कथंचित् केनापि तदुत्पत्तियोग्यताप्रकारेण
(१) प्रतिभासः । (२) अर्थाभावेऽपि । (३) प्रज्ञाकरगुप्तादयः । (४) स्वप्नान्तिकशरीरवत् । (५)
सन्तानान्तराभावसाधनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org