________________
१०।१५ ]
संग्रहाभासनिरासः
६८१
नान्यथा बुद्ध्या विज्ञेयत्वाभा [व] प्रकारेण बुद्धिः 'अभाव चतुष्टये' इति सम्बन्धः । प्रत्ययादिवेदनतो न्यायात् सन्मात्र गोचरी ( रा ) बुद्धिरिति ।
कारिकार्थं विवृणोति । नहि अभावचतुष्टयज्ञानं सर्वथा निर्विषयं विषयरहितं तुच्छाभावगोचरमेव नहि युक्तम् । ननु यद्यभावविषयं कथं निर्विषयमुच्यते इति चेत्; न; सौगतापेक्षयैवमभिधानात् । [ ५३०ख ] स हि अभावं नेच्छति । कुतो न निर्विषयमिति चेत् ; ५ अत्रा [ह - अ ]र्थान्तर इत्यादि । विवक्षितादर्थाद् अन्योऽर्थः तदन्तरम् तद् अवलम्बनं यस्य तस्य उपगमात्ं' सौगतेन ।
न्ववेनमपि (नन्वेवमपि ) परस्परविविक्तभावावलम्बनात् कथं सन्मात्रगोचरा बुद्धिरिति चेदतदत्त (चेदत्राह) स इत्यादि । तदभावचतुष्टयज्ञानमात्र [म]त्र सः परमाणुपर्यन्तज्ञानस्वरूपपरीक्षासमये स्वरूपमवलम्बेत नार्थभेदम् । कुतः ? इत्याह - तदभावे स्वरूपावलम्बनाभावे १० संविद्व्यपदेशानुपपत्तेः । अर्थग्रहणात् ज्ञानस्य तद्व्यपदेशो न स्वरूपावलम्बनादिति चेत्; ननु 'अर्थग्रहणं बुद्धि:' इति केनावगम्यते ? तयैव बुद्ध्या इति चेत्; न; स्वरूपग्रहणप्रसङ्गात्, तदग्रहे 'ममार्थग्रहणम्' इति प्रतिपत्त्ययोगात् । बुध्यात्तया (था) इति चेत्; सापि स्वरूप संवेदनविकला 'बुद्धि:' इति कथमवगम्यते ? आद्यज्ञानार्थग्रहणात् ; तदपि कुत इति तदवस्थं चोद्यम् अनवस्था च ।
वर्थो यतो दृश्यते तज्ज्ञानमिति चेत्; सत्यम्; दृश्यते, नाऽस्वसंवेदनज्ञानात् ; १५ इतरथा परज्ञानादपि दृश्येत इत्युक्तम् । एतेन मीमांसकोऽपि कृतोत्तरः । भवतु स्वरूपावलम्बन ज्ञानम्, तत् स्वरूपमन्यते (तो) व्यावृत्तमवलम्ब्यत इति चेत् ; अत्राह - तन्न इत्यादि । तत् तस्मात् स्वरूपमवलम्बेत इति न्यायात् न भावव्यतिरिक्तो ज्ञानसत्ताभिन्नो न विशेषो भेदः क्वचिद् विज्ञाने अन्यत्र वा कथंचिदेका नेकादिरूपेण प्रमेयतां प्रतिपद्येत । नहि स्वरूपमग्नं ज्ञानम् अन्यदविषयीकुर्वाणं तैतः [ ५३१ क] कस्यचिद्भेदम् अन्यद्वा प्रतिपद्यत इति ।
स्यादेतत्-यदि ज्ञानं स्वरूपमेव लंबि ( व अवलम्बि), तदेव प्रतिभासाद्वैतमायातम्, तच्च सौगतस्य नानिष्टम् अभ्युपगमात् । अथ तथा सत्ताद्वैतम् ; तन्न; अँप्रत्ययात्, चित्रप्रतिभासात् । अस्य मिध्यात्वे ततो भेदे न सत्ताद्वैतमिति चेत्; अत्राह - मिथ्यैकान्त इत्यादि ।
[मिथ्यैकान्तविविधनिर्भासप्रतिभासैक्यतत्त्वयोः । आत्मनोऽत्यन्तभेदोऽयं समः क्षणिकसंविदः ॥ १५ ॥
(१) भावान्तरस्वभावत्वादभावस्य । (२) अविषयीकृतार्थात् । (३) अप्रतीतेरित्यर्थः । (४) चित्र - प्रतिभासस्य । (५) चित्रज्ञानात् । (६) यस्मात् चित्रज्ञानाद् व्यावर्तते यच्च व्यावर्तते तदपेक्षया द्वैतं स्यात् । ८६
यथा परमात्मनः सद्रूपस्य तत्त्वम् अदृश्यात्मनः सकलविकल्पात् सर्वथा व्यतिरिच्येत अदृष्टं यतः खरविषाणवदिति तथा क्षणिकसंविदोऽपि तत्त्वं ततस्तथा व्यतिरिच्येत, यथातत्त्वं स्वयमेव संवेदनात् । मिथ्या ग्राह्यग्राहिकायाः भेदात्मनाऽनुभवात् ।]
अन्तम् अवसानम् अतिक्रान्तोऽन्तः (ऽत्यन्तः ) स चासौ भेदश्च विशेषः निरव - ३०
Jain Education International
२०
For Personal & Private Use Only
२५
www.jainelibrary.org