________________
६८२
सिद्धिविनिश्चयटीकायाम्
[ १० अर्थनयसिद्धिः
सानो विशेषोऽयं परेण उच्यमानः सन्मानपक्षे समः सदृशः । कस्य ? आत्मनः स्वस्य । कस्याः ? इत्याह-क्षणिकसंविदः सौगतसम्बन्धिबुद्धः । कयोः सतोः ? इत्याह - मिथ्या इत्यादि । मिध्यात्वम् एकान्तो यस्य स तथोक्तः स चासौ विविधः स्थूलत्वदीर्घत्व वर्तुलत्वादिना चित्रो निर्भासश्च घटादिप्रतिभासः तेन विद्यते प्रतिभासो दर्शनं ययोः ऐक्य५ तत्त्वयोः निरंशत्वस्वसंवेदनस्वरूपयोः सतो: आत्मनः क्षणिकसंविदः । एतदुक्तं भवति - यथा मिथ्याचेतनेतर निर्भासतिरस्कृतत्वात् न सत्तामात्रस्य नित्यत्वादि स्वरूपं वावभासते, तथा स्थूलत्वादिचित्रप्रतिभासेन प्रतिहतप्रसरत्वा न (न्न ) संविदात्मनोरेक्यतत्त्वयोः प्रतिभासनमिति ।
यथा इत्यादिना कारिकार्थमाह-यथातत्त्वं स्वरूपम् । कस्य ? द्रव्यस्य । किं [ भू ] तस्य ? १० सद्रूपस्य सत्तात्मकस्य । पुनरपि किंभूतस्य ? परमात्मनः परमः सर्वाधिक आत्मा रूपं यस्य तस्य इति । तत्तत्त्वं किं स्यात् ? इत्याह-व्यतिरिच्येत स्वयं भिद्येत । कुतः ? इत्याह-सकलविकल्पात् [ ५३१ ख] निखिलचेतनेतरभेदात् । किंभूतात् ? इत्याह- अदृश्यात्मनः । कथम् ? इत्याह- सर्वथा सर्वेण वस्तुगतधर्मकलापप्रकारेण । कुतः ? इत्याह- अदृष्टं 'येत' यतः खरविषाणवदिति तथा क्षणिकसंविदोऽपि तत्त्वं ततः तथा व्यतिरिच्येत । कुत: ? इत्याह१५ यथातत्त्वम् [इत्यादि] | यथा [ तत्त्वं ] स्वयमेव संवेदनात् क्षणिकसंविदः । एतदपि कुतः इत्याह-मिथ्या इत्यादि । मिथ्या ग्राह्यग्राहकौ यस्याः " नान्योऽनुभाव्यो बुद्ध्यास्ति" [प्र० वा० २।३२७]इत्यादि वचनात् तस्या भेदात्मना नानास्वभावेन अनुभवात् । अनेन विरुद्धोपलब्धिं दर्शयति ।
?
"
ननु सत्ता व्यापिनी नित्यैका न्ने (चे) ध्यते, न च तत्र प्रमाणमिति क्षणभङ्गे निरूपितम् । २० संवित्तिः पुनः क्षणिका अनेका, तत्र प्रमाणमस्ति इति चेत्; अत्राह - - नहि इत्यादि ।
[ न हि तत्त्वोपलम्भानवस्थापयति कल्पना । मिथ्या दोषान् निराकृत्य स्वस्मादवर्णात्मिका ॥ १६ ॥
स्वमादौ विभ्रमेवा अवर्णात्मिकैव संवित्तिः वर्णाद्यात्मना निरंशैव सांशेव अवभासते । नैतावता स्वयमदृश्यात्मैव यतो दृश्यात् सर्वथा भिद्येत इति समाधिः परमात्मनः २५ द्रव्यमात्रेऽपि समः |]
क्षणिकसन्तानभेदकल्पना । अनेन नित्यैव (क) त्वव्यापित्ववद् अन्यत्रापि कल्पनातो नान्या गतिरिति दर्शयति । किंभूता सा ? इत्याह- मिथ्या असत्या, नित्यत्वेऽवस्थापयति न खलु । कान् ? इत्याह- तत्त्वोपलम्भ इत्यादि । तान् किं कृत्वा इत्याह- स्वस्माद् आत्मनः सकाशात् निराकृत्य तद्दोषान् इति, समानत्वात् उभयत्र तदोषाणाम् इति भावः । ३० ननु सत्तावन्नादृश्या संवित्तिः, तस्या एव अन्यथा प्रतिभासनात्, मैरुष्विवाल्पस्य महत्त्वेन इति चेत ; अत्राह - अवर्णात्मिका । गतार्थमेतत् ।
(१) 'यत' इति व्यर्थमत्र । (२) क्षणिकपक्षेऽपि । (३) यथा मरूभूमिषु दूरे अल्पोऽपि महान् दृश्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org