________________
१०।१७-१८ ]
व्यवहारनयनिरूपणम्
६८३
कारिकासूत्रं व्याचष्टे स्वप्नादौ इत्यादिना । [ स्वप्नादौ ] विभ्रमे वा अवर्णात्मिकेव (कैव) स्थूलार्थाकाररहितैव संवित्तिः वर्णाद्यात्मना [ ५३२क] यथा विप्लवसामर्थ्यप्रकारेण अवभासते तथा निरंशैव अविभागैव सांशेव अवभासते नैतावता स्वयमदृश्यात्मैव अदृश्य आत्मा स्वरूपं यस्या इति, तस्या एव तथावभासनादिति । यतो यस्माददृश्यात्मकत्वात् दृश्यात् माह्यादिविप्लवात् सर्वथा सर्वेण स्वभावेन भिद्येत इत्येवमुच्यमानः समाधिः समः । क १५ इत्याह- द्रव्यमात्र ऽपि । कुतः ? इत्याह- परमात्मन इत्यादि ।
संग्रहनयेन सौगतं दूषयित्वा संग्रहाभासंमधुना व्यवहारनयेन अपहस्तयन्नाह - भेद
इत्यादि ।
[भेदाः कर्मफलादीनामिह लोके परत्र वा । भेदे सति प्रवर्तेत नाभेदे सः प्रवर्तते ॥ १७॥
लोकतं]
भेदे सति । केषाम् ? कर्मफलादीनाम् आदिशब्देन कर्मसाधनादिपरिग्रहः । किं स्यात् ? इत्याह-प्रवर्त्तेत । क ? इत्याह- इहलोकोऽच (लोके अत्र ) कर्मशब्देन क्रिया गृह्यते फलवच[ने]नौदनादिकम् । परत्र वा अत्रापि कर्म शुभाशुभमदृष्टं फलं स्वर्गादिकम् । अभेदेऽपि सः प्रवर्त्तते इति चेत्; अत्राह - नाभेद इत्यादि ।
१५
लोकेंद्व ैतम् इत्यादिना कारिकार्थमाह । सर्वं सुगमम् ।
यदुक्तम्-*“नहि अभिन्नतत्त्वस्य भेदप्रतिभा( सव्यवहारो विप्रतिषिद्धः स्वप्नादौ दर्शनात् " इति दूषयन्नाह - मिथ्यात्वम् इत्यादि ।
[मिथ्यात्वं संविदां वीक्ष्य कचित् सर्वत्र तद्विदः । त्यजेत् संग्रहवादः सन्मात्रं स्वाभिमतं तथा ॥ १८ ॥
प्रमाणतः सन्मात्रप्रतिपत्तेः प्रमाणसन्मात्रभेदसिद्धेः स्वाभिमतं त्यजेत् । प्रमाणाते तद्व्यवस्थितेरभावादतिप्रसङ्गात् । आस्तां तावत् द्रव्यमात्रं पर्यायमात्रमिव । सम्यमिथ्यात्ववेदकमन्तरेण क्वचित् कस्यचित् कथञ्चित्तदसिद्धेः । कुतः तत्त्वमिदन्तया अन्यथा वा व्यवस्थापयितुकामेन तत्वज्ञानं प्रमाणमन्वेप्यम्, अनुपायोपेयासिद्धेः ।]
संविदां भेदज्ञानानाम् मिथ्यात्वम् असत्यत्वं वीक्ष्य क्वचित् स्वप्नादौ सर्वत्र २५ जाद्दशायामपि या तद्वत् मिध्यात्वं (मिथ्या) संवित् तस्याः तद्विदः सकाशात् त्यजेत् संग्रहवादो स्वाभिमत (तं) सन्मात्रम् । यथैव हि कचिद् भेदविभ्रमदर्शनात् सर्वत्र
(१) तुलना - "संग्रहः सर्वभेदैक्यमभिप्रति सदात्मना । ब्रह्मवादस्तदाभासः स्वार्थभेदनिराकृतेः ॥”– लघी० श्लो० ३८ | त० श्लो० पृ० २७० । नयवि० श्लो० ६८ । न्यायावत ० टी० पृ० ८५ । प्र० नय० ७ । १५-२१। जैनतर्कभा० पृ० २४ । (२) तुलना - " कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा ॥ " - आप्तमी० श्लो० २५ ।
Jain Education International
२०
For Personal & Private Use Only
www.jainelibrary.org