________________
६८४
सिद्धिविनिश्चयटीकायाम्
[ १० अर्थनयसिद्धिः
तदु (दू) भ्रमः, तथा अविशेषेण विशेषविभ्रमदर्शनात् सन्मात्र भ्रमोऽपि स्यादिति मन्यते । नहि तंद् विशेषादन्यदेव उपलभ्यते, यतोऽयं भेदः स्यात् । [५३२ ख]
ननु द्वित्वा (द्वित्वात्) चन्द्रत्वादिकं भिन्नमुपलभ्यते, तथापि तदेव सत् न द्वित्वम्, तथा अत्रापि स्यादिति चेत्; तदसत् ; भेदेऽपि तथा सत्येतरव्यवस्थापत्तेः । अपि च, प्रमाणात, ५ अन्यतो वा सन्मात्रं प्रतीयेत ? प्रथमपक्षे - धाते (?) प्रमाणात्, प्रमाणमन्तरेण न तद्वयव - स्थितिः, अपि तु प्रमाणतः सन्मात्रप्रतिपत्तेः स्वाभिमतं त्यजेत् प्रमाणसन्मात्र भेदसिद्धेः । स्यादेवं यदि भिन्नात् प्रमाणान्न ( णात् तत् ) ज्ञायेत, यावता आत्मनि तदेव प्रमाणं नासं (?) प्रत्ययाद् भेदसिद्धेः । द्वितीयेऽपि पक्षे एतदेव वाच्यम् प्रमाणादृते तदन्तरेण तद्व्यवस्थितः (ते) सन्मात्रस्थितेरभावादिति (द् अति) प्रसङ्गात् ।
"
1
१०
ननु यथा विभ्रमवादिनः प्रमाणमन्तरेण स्वाभिमतं सिध्यति तथा ममापि इति चेत्; अत्राह - आस्तां तावत् इत्यादि । आस्तां तिष्ठन्तु तावत् । किं ? द्रव्यमात्रम् । किमिव ? पर्यायमात्रमिव । सन्मात्रवादिनः सिद्धमिदं निदर्शनम् । किन्तु मिथ्यैकान्त एव न सिध्येत् । किमन्तरेण ? इत्याह- सम्यमिध्यात्ववेदकमन्तरेण क्वचिद् बहिरन्तर्वा स्वप्नादौ अन्यत्र वा कस्यचित् प्रत्यक्षस्य अन्यस्य वा कथंचित् अभिमतप्रकारेण सम्यक्त्वम् अन्यथापि विपर्यय १५ इति प्रकारेण तदसिद्धेः । फलं दर्शयन्नाह - कुतः इत्यादि । अनेन साध्यसमत्ता (तां) निदर्शनस्य दर्शयति । यदि वा शून्यता अनेन निरस्ता । न मया परबलेन तत्त्वं व्यवस्थाप्यते अपि तु [५३३ क] स्वबलेन इति चेत्; अत्राह - तत्त्वम् इत्यादि । तत्त्वं भावस्वरूपमिदंतया सन्मानतया अन्यथा वा व्यवस्थापयितुकामेन संग्रहवादिना तत्वज्ञानं तच प्रमाणमन्वेष्य( यम् ) । कुत: ? इत्याह- अनुपायोपेयासिद्धेः ।
तत्त्वम् इदन्तया नेदन्तया वा अवाच्यमिति चेत्; अत्राह - प्राकृतात् इत्यादि ।
२०
[प्राकृताद् भिद्यते विद्वान् सम्यग्ज्ञानावलम्बनात् । तदभावेऽप्यवाच्यत्वे व्यक्त निद्रायितं जगत् ॥१९॥
सदसद्व्यवहारनिबन्धनं सम्यग्ज्ञानम् । तदन्वयैकान्ते कः प्राकृतबुद्धिः बोद्धा वा क्वचित् किञ्चिदाश्रित्य न तिष्ठेत् प्रतिष्ठेत अपसरेद्वा हितान्वेषी । कथञ्चित् तत्त्वमिध्यात्व२५ व्यवस्थापनम् अनेकान्त मिथ्यैकान्त अपेक्ष्यं तत्रैव प्रवर्तयति ]
प्राकृतः अतत्त्वज्ञः नित्यत्वादिधर्मैः वस्तुवाच्यताभिनिविष्टः तस्माद् भिद्यते विशिष्टो भवति । कः ? विद्वान् तत्त्वज्ञः सर्वथा [अ] वाच्यतत्त्वप्रतिपत्ता । कुतः ततो भिद्यते ? इत्याह-सम्यग्ज्ञानावलम्बनात्, अवाच्यतत्त्वगोचरम् अबाधितप्रसरं समीचीनं ज्ञानं सम्यग्ज्ञानं तस्यावलम्बनात् स्वीकारात् । यदा हि श्वग (शृङ्ग) माहिकयां तत्तत्वं कुतश्चित् प्रति
(१) सन्मानम् । (२) चन्द्रत्वमेत्र । (३) ज्ञापक- ज्ञेयरूपेण भेदः स्यात् । ( ४ ) सन्मानम् । (५) प्रतिनियतव्यक्तिरूपेण ।.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org