________________
१०।२०]
व्यवहारनयनिरूपणम् पद्यते, तदा स ततोऽन्यथा सर्वेऽपि प्राकृता इति न [अ]वाच्यतत्त्वावतारः । तथापि तदवतारे दोषमाह-तदभावेऽपि सम्यग्ज्ञानावलम्बनाभावेऽपि अवाच्यत्वे तत्त्वस्य अभ्युपगम्यमाने व्यक्त यथा भवति तथा निद्रायितः निद्राक्रान्तः पुरुषो निद्रितमिवाचरति स्म । किं तत् ? इत्याह-जगद् अवाच्यतत्त्ववादिलोकः । एवं मन्यते-यथा निद्राकान्तः अदृष्टतत्त्वोऽपि किंचिदसम्बद्धं प्रलपति तथाऽयमपि इति ।
.. कारिकां स्पष्टयन्नाह-सदसद्व्यवहार इत्यादि । सदसदद्वैतम् (सद् अद्वैत) एकत्वादिधर्मैरवाच्यम् असत् नीलादिभेदजातं तयोर्व्यवहारस्य व्यवस्थायाः निबन्धनं, किम् ? सभ्यग्ज्ञानं तदन्वयकान्ते, कः प्राकृतबुद्धिः अतत्त्वबुद्धिः न कश्चित् । सम्यग्ज्ञानेन बाध्य न बुद्धिः'... द्धिरित्युच्यते, तदभाव न किंचिद्बाध्यते केनचित् कः [५३३ख बोद्धा वा तत्त्वज्ञो बोद्धा सोऽपि तदभावे...'ति हेतोः क्वचित सम्मात्रादवावाज्ये (त्रावाच्ये) किंचिदागमादिकमाश्रित्य न १० तिष्ठेत् स्थितिं न कुर्यात् भ र्तृ ह रिः न प्रतिष्ठेत न वाऽपसरेद्वा कुतश्चित् भेदवर्गात् । 'क्वचित्' इति कुतश्चि[दि]ति जातविभक्तिपरिणामः सम्बध्यते । किंभूतः ? हितान्वेषी स्वर्गापवर्गमार्गान्वेषणशीलः।
सम्यग्ज्ञानावलम्बने परस्यानिष्टमापततीति दर्शयन्नाह-कथंचित् इत्यादि । केनापि प्रत्यक्षादिप्रकारेण तत्त्वमिथ्यात्वव्यवस्थापनं कर्तृ पेक्षा (अपेक्ष्य) कारणं प्रवर्त्तयति । किंभूतं १५ तत् ? इत्याह-अनेकान्त इत्यादि । क ? इत्याह-तत्रैव अनेकान्तसिद्धावेव । के ने ह(केन ? इत्याह) मिथ्र्यकान्त इत्यादि। .. प्रकृतोपसंहारकारिकामाह-सन्तान इत्यादिकाम् ।
[सन्तानसमुदायादिनैकान्ताभेदभेदयोः ।
ततश्च व्यवहारो न संग्रहे ऋजुसूत्रवत् ॥२०॥ प्रभवः तदन्यथा च 'इति व्यवहारनयः]
चशब्द इवार्थो भिन्नक्रमः ऋजुसूत्र इत्यस्यानन्तरं द्रष्टव्यः । ततोऽयमर्थः-ततः तद्धर्मात् उक्तात् न्यायात् संग्रहे व्यवहारो न स्यात् ऋजुसूत्र [:]क इव(त्रवत् , तदिव) कुतः ? इत्याह-सन्तानः हेतुफलभावविशेषः समुदायः स्कन्धः आदिशब्देन अन्योऽपि जगन्निवासी गृह्यते, स न, क ? एकान्ताभेदभेदयोः यतः इति निरूपितमेतदसकृत् । २५
कारिकाविवरणमाह-प्रभव इत्यादि तदन्यथा 'तँदन्यथा' सोऽन्यथा च कार्यव्यतिरेक
(१)अत्र प्रतिभृष्टा ।(२) तुलना-"लौकिकसमः उपचारप्रायो विस्तृतार्थो व्यवहारः । आह च-लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात् ।' तत्त्वार्थाधि० भा० १॥३५। “संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः।"-स० सि० १॥३३ । “व्यवहाराविसंवादी नयः स्याद् दुर्नयोऽन्यथा । बहिरर्थोऽस्ति विज्ञप्तिमात्रं शून्यमितीदृशः ॥"-लघी० श्लो० ४२ । (३) 'तदन्यथा' इति द्विलिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org