________________
६८६
- सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः साधनश्च शेषं सुगमम् । इत्येवं व्यवहारनयः । व्य[व]हारम् ऋत्रुसूत्रो दर्श (दूष) यन्नाह-तत्र इत्यादि ।
[तत्र भेदे यथा नृणां सन्तानक्यं तथा नयन् ।
ऋजुसूत्रनयोऽभेदे असर्व[विषयत्वतः] ॥२१॥ कल्पनाशिल्पिघटितवाद् व्यवहारो मिथ्यैवं । तद्वशादेकत्वव्यवस्थापनमयुक्त सूर्यवंशादिवत् । स्मृतिप्रत्यवमर्शकर्मफलसम्बन्धादयः क्वचित् स्युः हेतुफलभावविशेषात् इह नियतवृत्तयः स्मृत्यादयः न पुनरैक्यात्, विप्रतिषेधात् । न चानेकतत्वस्य दर्शनादरकत्वे क्वचिदनेकत्वं युक्तम् । विकल्पशब्दव्यवहाराणां भेददर्शनात् ।]
तत्र व्यवहारनये 'दूषणम्' इत्यध्याहारः। किम् ? इत्याह-सन्तानक्यं सन्तत्यभेदः, १० केषाम् ? नृणाम् पुरुषाणाम् । उपलक्षणमेतत् तेन [५३४क] अचेतनानामपि । कस्मिन् सति ?
इत्याह-भेदे नानात्वे । कथम् ? इत्याह-यथा येन कल्पनारोपितप्रकारेण अभेदे संग्रह इत्यर्थः । तथा नयन् वस्तु गमयन् ऋत्रुसूत्रनयो 'भवति' इत्यध्याहारः । तदैक्यं भावतः कुतो न इति चेत् ; अत्राह-असर्व इत्यादि ।
कारिकां विवृण्वन्नाह-कल्पना इत्यादि । व्यवहारो मिथ्यैव । कुतः ? इत्याह-कल्पना१५ शिल्पिघटितत्वात् व्यवहारस्य इति । ततः किं जातम् ? इत्याह-तद्वयसा इ (तद्वशात्) व्यवहारवशाद् एकत्वव्यवस्थापनमयुक्तम् । अत्र निदर्शनमाह-सूर्यवंशादिवत सूर्यवंशादेरिव ।
तु (ननु) प्रमातरि पूर्वापरप्रत्यययोर्यो कत्वं न स्यात् सत्त्वान्तरवत् स्मृत्यादयो न स्युः इति चेत् ; अत्राह-स्मृति इत्यादि । स्मृतिश्च स इति ज्ञानं प्रत्यवमर्शश्च प्रत्यभिज्ञानं कर्म च क्रिया
अदृष्टं वा फलं वोद (च ओद)नादि स्वर्गादि च, तयोः सम्बन्धश्च ते आदयो येषाम् २० ऊहादीनाम् ते तथोक्ताः क्वचिद् एकस्मिन् सन्ताने स्युः भवेयुः । कुतः ? इत्याह-हेतुफलभाव
विशेषात् हेतुः अनुभवः फलं स्मरणम् तयोर्भावः तस्य विशेषात् अतिशयात् । किम् ? इह नियतवृत्तयः स्मृत्यादयः। तथाहि-स्वसन्तानगतोऽनुभवः तद्गतस्मरणजननस [मर्थ] एव तदेव जनयति नान्यो विपर्ययात् , इतरथा आत्मवादिनोऽप्ययं समानो दोषः। अन्यस्य अनुभवः
(१) "ऋजुसूत्रस्य पर्यायः प्रधानं चित्रसंविदः। चेतनाणुसमूहत्वात् स्याद् भेदानुपलक्षणम् ॥" -लघी० श्लो० ४३ । “पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयव्वो।"-अनु० द्वा० ४ । “सतां साम्प्रता नामभिधानपरिज्ञानमृजुसूत्रः ।"-तत्त्वार्थाधि० भा० १॥३५ । "ऋजुं प्रगुणं सूत्रयति तनयत इति ऋजुसूत्रः । -स०सि० १।३३ । “सूत्रपातवद् ऋजुत्वात् ऋजुसूत्रः।"-त० वा० ११३३ । “ऋजु प्रगुणं सूत्रयति नयत इति ऋजुसूत्रः। सूत्रपातवद् ऋजुसूत्र इति ।"-नयच० वृ० पृ० लि. पृ० ५४ ख० । धवलाटी० सत्प्ररू० । “ऋजुसूत्रं क्षणध्वंसि वस्तुसत् सूत्रयेदृजु । प्राधान्येन गुणीभावाद् द्रव्यस्यानर्पणात् सतः ॥" -त० श्लो० पृ० २७१ । नयवि० श्लो० ७७ । सन्मति टी० पृ० ३११ । नयचक्र० गा० ३८ । तत्त्वार्थसा० पृ० १०७ । प्र० नय० ७।२८ । स्या० मं० पृ. ३१२ । जैनतर्कभा० पृ० २२ । (२) तुलना-"पूर्वापरा स्त्रिकालविषयानतिशय्य वर्तमानकालविषयानादत्ते । अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावात् ।" -स० सि०, त० वा० १॥३३ । (३) प्राण्यन्तरवत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org