________________
१०।२२]
ऋजुसूत्रविचारः अन्यस्य स्मरणं कुतो न] जनयति ? असामर्थ्यात्'; अन्यत्र समानम् । एकत्वाभावात्'; स्वपरयोः एकत्वमपि कुतो न ? तद्धेतोः तथा सामर्थ्यात्'; आनुगत (अनुगतः) प्रसङ्गः। तथादर्शनात्'; किं पुनः परानुभवतोऽन्यस्मरणमुपलभ्यते ? [५३४ ख]
[एते] न प्रत्यवमर्शादयो व्याख्याताः।
ननु यावत्तद्विशेषान्नियतवृत्तयः ते तावदैक्यात् कुतो न भवन्ति ? तत्राह-न पुनरैक्यात् । ५ सुः (स्युः) । कुतः ? इत्याह-विप्रतिषेधात् कि (वि)शेषेण निषेधात् ऐक्यस्य । यदि वा, विरोधात् । तथाहि-यदि दर्शनस्मरणादयो ऽनर्था (योऽर्था)न्तरभूताः; नैक्यम् । तच्चत् ; न ते इति । अथ अनेकान्तेऽयमदोषः; तत्राह-नच इत्यादि । नच नैव अनेकसत्त्वस्य परस्परभिन्नतत्त्वस्य दर्शनादेर व त्वे(रेकत्वे) अङ्गीक्रियमाणे क्वचित् पादादौ (पादपादौ) अनेकत्वं युक्तम् सर्वस्य ऐक्यं स्यात् इत्यर्थः । इतश्च तन्न युक्तम् ; इत्याह-एकत्वानेकत्वयोः विप्रति- १० षेधात् विरोधात् कथमेकं तत्त्वम् [अनेकम् ?] अनेकं वा एकमिति ? अतश्च न तत्तथा; इत्याह-विकल्पेत्यादि । एतदुक्तं भवति-एकत्र अनित्यत्वाद्यनेकधर्मविकल्पशब्दव्यवहाराणां भेददर्शनात् तत्र भेदसिद्धिः प्रार्थ्यते, तेषां च वस्तुतत्त्वे नियमानुपपत्तिः। तन्न युक्तम् *"संज्ञासंख्याविशेषाच" [आप्तमी० श्लो० ७२] इत्यादि । वस्तुस्वभावानन्वयाञ्च तत्तथा न संगतमिति ।
ननु भेदैकान्ते कथमुपादानोपादेयभावः यतः तथा स्मृत्यादय इति चेत् ? अत्राहस्वभावानन्वये इत्यादि।
[स्वाभावानन्वयेऽन्यत्र स्याद्धेतुफलयोर्यथा ।
कार्यकारणभावो वा ततस्तत्त्वं निरन्वयम् ॥२२॥ नावश्यं [कारणानि कार्यवन्ति भवन्ति] अतिप्रसङ्गात् । सादृश्यविशेषात् तद्विशेषे २० क्वचिदन्वयप्रतिपत्तिः मायागोलकवत् । यमलकयोरकार्यकारणत्वेऽपि सादृश्यं तद्विशेषप्रतिपत्तेः । तद्]
__ अन्यत्र सहकारिकारणे स्वापादौ वा वल्लीदाह-देशान्तरपर्णकोथयोर्वा कार्यकारणभावो यथा येन योग्यताप्रकारेण स्वभावानन्वये कार्यकारणोरूपा[णयोरुपादानोपादेया] ननुगमे सति स्याद् भवेद् विवादविषये हेतुफलयोः उपादानोपादेययोः तद्वत्तद्भावः, २५ ततः तत्त्वं निरन्वयम् । [५३५ क]
कारिकार्थमुपदिशन्नाह-नावश्यम् इत्यादि । कुतः ? इत्याह-अतिप्रसङ्गात् कुलालघटयोः स्वापप्रबोधयोः प्राप्तः ।
स्यान्मतम् पूर्वापरक्षणयोः निरन्तरोपलभ्यमानयोः उपादानोपादेयभूतयोः अन्वयोऽपि (१) इति चेत् ; । (२) ऐक्यं चेत् । (३) दर्शनस्सरणादयः पृथक् । (४) "द्रव्यपर्याययोरैक्यं तयोर
व्यतिरेकतः। संज्ञासंख्याविशेषाच्च तन्नानात्वं न सर्वथा ॥"-आप्तमी०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org