________________
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः प्रतीयते इति; तत्राह-तद्विशेषे हेतुफलभेदे उपादानोपादेयभूते क्वचिन्निरन्तरोपलभ्यमाने अन्वयप्रतिपत्तिः एकत्वसंवित्तिः । कुतः ? इत्याह-सादृश्यविशेषात् मायागोलकवत् । तदुक्तम्*"सदृशापर" इत्यादि । अथ तद्विशेष एव हेतुफलयोस्तादात्म्यम् ; तत्राह-सादृश्यम् इत्यादि । कुतः ? इत्याह-अकार्यकारणत्वेऽपि यमलकयोः तद्विशेषस्य सादृश्यविशेषस्य प्रतिपत्तेः । ५ भ्रान्तः स तत्र इति चेत् ; अत्राह-तद् इत्यादि । एवं ऋजुसूत्रदुर्णयो दर्शितः । कथमयं दुर्णय इति चेत् ? अत्राह-प्रत्यक्षतरयोरैक्यम् इत्यादि ।
[प्रत्यक्षतरयोरैक्यं प्रतिपन्नं विरुणद्धि चेत् ।
अनेकान्तं कुतः को वा विजयेतर्जुसूत्रकम् ॥२३॥
यदि एकान्तविरोधात् न संविदः प्रत्यक्षादिभिरेकत्वं प्रतिपद्येत ; किं केन प्रति१० पद्येत तव्यतिरेकेण स्वरुचिविरचितनिरंशतत्त्वस्यानुपलब्धः गत्यन्तराभावादिति ]
प्रत्यक्षः प्रत्यक्षज्ञानपरिच्छेद्यः चन्द्रत्वादिः, इतरः तदपरिच्छेद्यः विभ्रमे एकत्वादिः । अथवा तत्रैव प्रत्यक्ष(क्ष) कल्पनापोढमभ्रान्तं ज्ञानस्य रूपं वा वल्यादिना (वर्तुलत्वादिना) इतरत् तदाभासं द्वित्वादिना । यदि वा, प्रत्यक्षं विकल्पबुद्धेः स्वरूपम् इतरद्
अप्रत्यक्षम् अर्थेऽनभिलाप्यं रूपं तयोरैक्यं प्रतिपन्नमभ्युपगतं चेत् यदि सौगतेन, कुतः १५ अनेकान्तं सौगतदर्शन (न) विरुणद्वि व्याहन्ति विरुणद्ध्येव तदन्यत्रापि तथाऽनेकान्तानिवारणात् । अथ तदप्रतिपन्नम् ; तत्राह-को वा इत्यादि । न इत्यनुवर्त्तते । ततोऽयमर्थःको वा न विजयेत अपि किन्तु सर्वोऽपि विजयेत [५३५ ख] ऋजुसूत्रकम् । अदृष्टमेकान्तं कल्पयतः सर्वैः बाधनसंभवात् , तस्य वा सर्वैः कल्पनसंभवादिति भावः ।
इतरस्य सुगमत्वात् , 'को वा' इत्यादि विवृण्वन्नाह-संविद इत्यादि । संविदो ज्ञानस्य २० प्रत्यक्षादिभिरेकत्वं संवित्प्रत्यक्षविकल्पाविकल्पविभ्रमैकत्वं तद्यदि सौगतो न प्रतिपद्यत
नाभ्युपगच्छेत । अत्र हेतुमाह-एकान्तविरोधादिति । तत्र दूषणमाह-कि क्षणक्षयादि केन प्रत्यक्षादिना न केनचित् प्रतिपद्येत । कुतः ? इत्याह-तव्यतिरेकेण इत्यादि । संवित्प्रत्यक्षाचैव (धेकत्व)व्यतिरेकेण स्वरूचिविरचितस्य निरंशतत्त्वस्यानुपलब्धेः। न जैनोपगता
शेपि (त सांशेऽपि) निरंशात् संविद्रूपात् किंचित् प्रतिपद्यते अपि तु अन्यतः इति चेत् ; अत्राह२५ गत्यन्तराभावादिति ।
ननु सौत्रान्तिका (क) नँयापेक्षया भवतु ज्ञानं निर्दिष्टप्रकारं न ज्ञानवादिनयापेक्षया, तत्र हि * "स्वरूपस्य स्वतो गतिः"[प्र० वा० १।५] इति चेत् ; अत्राह-अन्यथा इत्यादि ।
(१) “सदृशापरापरोत्पत्तिविप्रलब्धो वा लूनपुनर्जातनखादिवत्"-प्र० वार्तिकाल० पृ० १४४ । (२) "निराकरोति यद् द्रव्यं बहिरन्तश्च सर्वदा । स तदाभोऽभिमन्तव्यः प्रतीतेरपलापतः ॥-त० श्लो० पृ. २७१ । श्लो० ७८ । न्यायावता० टी० पृ० ८८ । प्र० नय० ७।३०,३१ । जैनतर्कभा० पृ. २४ । (३) द्विचन्द्रज्ञाने ।(४) मतापेक्षया । (५) योगाचार ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org