________________
१०।२४-२५ ]
ऋजुसूत्रनयविचारः
[ अन्यथा संविदस्तत्त्वं प्रतिभासोऽन्यथेत्यपि । सुखोत्पाद मतं प्राप्नोति संग्रहः ||२४||
संविदस्तत्त्वं निरंशमभिन्नं कुतश्चित् भिन्नप्रतिभासमिवेति कल्पनायां संग्रहेऽपि तथैव किन्न कल्प्येत, यतः क्षणक्षयादिसाधनमायास [ मात्रफलम् ] अवलम्बेत |]
अ[यम]भिप्रायः- नीलादेः अन्यनीलादिरेव वा, संविद्रूपं स्यात् ? प्रथमपक्षे अन्यथा ५ अन्येन निरंशप्रकारेण संविदः तत्त्वं स्वरूपं प्रतिभास: संविदः अन्यथा ग्राह्यादिभेदप्रकारेण | एवं मन्यते - यदा नीलादेरन्य त (त्त) त्त्वं तदा नीलादिभेदप्रतिभास: । तद्विप्लव एव इति चेत्; अत्राह - इत्यपि इत्यादि । एवमपि मतं संग्रहः प्राप्नोति संग्रहाक्रान्तं भवेत् इत्यर्थः । कुतः ? इत्याह- सुखोत्पाद इत्यादि ।
तत्त्वम् इत्यादिना कारिकार्थमाह-तत्त्वमभिन्नं निरंशं संविदः [ ५३६ ] कुतश्चिद् १० आन्तरविभ्रमकारणवशात् भिन्नप्रतिभासमिव इत्येवं कल्पनायां संग्रहेऽपि न केवलं ऋजुसूत्रे तथैव किन्न कल्प्येत । विवृतमेतत् । यतोऽकल्पनात् क्षणक्षयादिसाधनमवलम्बेत । किंभूतम् ? इत्याह- आयास इत्यादि ।
ननु संग्रहे नित्यं तत्त्वम्, इतरत्रानित्यं हेतुफलात्मकमिति तयोर्भेद इति तत्साधनमिति चेत्; अत्राह - अप्राप्त इत्यादि ।
[अप्राप्तकार्यकालस्य कारणत्वमनिश्चितम् । सर्वथा सर्वदाऽदृष्टं श्रद्धेयमतिबह्रिदम् ॥ २५ ॥
६८९
Jain Education International
कार्यक्षणम् । ``यथा कार्योत्पत्तिक्षणसमये कारणात्मलाभोऽकिञ्चित्करः तथा तत्कृतोपकारानपेक्षस्य समनन्तरसंभवश्च । यतो नैरन्तर्य विशेषमेव प्रभवमाचक्षीत । न च पौर्वापर्यमेव उपकारः । तादृशामुपादानेतरव्यवस्था कीदृशी ? तदर्थक्रियायाः नित्यत्वे २० क्षणिकत्वे चासंभवे कथमकार्यकारणं सर्वं न स्यात्, यद्यनेकान्त सिद्धिर्न भवेत् ।]
अप्राप्तः कार्यकालो येन निरंशेन, पूर्वमेव सर्वथा नाशात् तस्य कारणत्वमनिश्चितम् । तदनुभवपथप्रथोऽपि न भवति तत्कथं कारणत्वनिश्चय इति भावः । एतदेवाह - सर्वथा क्षणक्षयादिरूपेणैव (णेव) सच्चेतनादिरूपेणापि सर्वदा विकल्पावस्थायामिव संहृत विकल्पेऽपि, यदि वा स्वाप इव जागरणेsपि अदृष्टं श्रद्धेयम् अतिबह्निदं संविदस्तत्त्वम् ।
कारिकाविवरणं कार्यक्षणम् इत्यादि । सर्वं सुगमम् ।
पूर्वमुत्पद्य विनष्टं कारणम् अपि तु समनन्तरमिति चेत्; अत्राह - कार्य इत्यादि । कार्योत्पत्तेः क्षणसमये कारणात्मलाभो यथा येन तदुपत्त्यकारणप्रकारेण, नहि सहसंभविनोरेकमन्यस्य जनकम्, द्वयोरपि अन्योऽन्यं जनकत्वे अन्योऽन्याश्रयदोषात्, न किंचित्करः तथा समनन्तरसंभवश्च अकिंचित्करः । तथाहि - पूर्वं समनन्तरं यावदुत्तरस्य कारणम् ; तावदुत्तरं ३० (१) निर्विकल्पावस्थायामपि ।
८७
For Personal & Private Use Only
१५
२५
www.jainelibrary.org
1