________________
.. सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः तथाविधं पूर्वस्य कुतो न भवति ? अविनाभावस्य उभयापेक्षयापि समानत्वात् । तथा सति अन्योऽन्यसंश्रयः तदवस्थः ।
स्यान्मतम्-यथा सहभाविनोरितरेण [५३६ख] नान्यस्य उपकारः तथा समनन्तरयोरपि, तथाप्येकमन्यस्य कारणं नियमेन तदनन्तरभावादिति ; तत्राह-तत्कृतोपकारानपेक्षस्य इत्यादि । ५ अन्यथा सर्व सर्वस्मात् नियमेन अनन्तरं स्यात् । यतो यस्मात् तन्नियमश्रद्धानात् नैरन्तर्यविशेषमेव प्रभवं हेतुफलभावमाचक्षीत सौगतः । अत्रैव दोषान्तरमाह-न च इत्यादि । च इति दूषणसमुच्चये । न पौर्वापर्यमेव उपकारः सर्वेषामपि पूर्वापरीभूतानां सं भवेत् इति भावः। तादृशाम् अनन्तरवर्णितस्वभावानाम् उपादानेतरव्यवस्था नाम कीदृशी ?.
ननु न किंचित् कस्यचित् कारणम् *"अशक्त सर्वम्" [प्र० वा० २।४] इत्यादि १० वचनादिति चेत् ; अत्राह-तदर्थ इत्यादि । सा चासौ *"यदेवार्थक्रिया[कारि]तदेव
परमार्थसत" इति वचनात् सौगताभ्युपगतार्थक्रिया च तस्याः नित्यत्वे क्षणिकत्वे च असंभवे अङ्गीक्रियमाणे कथमकार्यकारणं सर्वं न स्याद् भवेत् । तथा च ब्रह्मवदनित्यपक्षेऽपि सर्वहेत्वादिव्यवहारापहार इति भावः।।
ननु खात्पतिता रत्नवृष्टिः प्रतिभासाद्वैतवादिनः, तेनाभ्युपगमादिति चेत् ; अत्राह-यदि १५ अनेकान्तसिद्धिर्न भवेत् स्याद् अकार्यकारणं सर्वमिति सम्बन्धः । यावता नीलादिस्वभावामपि संविदं वदतोऽनेकान्तसिद्धिः हेतुफलभावाविरोधिनी भवेत् इत्युक्तम् । नन्वनेकान्ते विरोधादिदोषात् कथं तत्सिद्धिः ? इत्यत्राह-विरोधात् इत्यादि। [५३७क]
[विरोधाद्विभ्यतस्तस्य तव कथन्न विरुध्यते ।
शून्यता बहिरन्तश्च मानमेयनिराकृतेः ॥२६॥ २० बहिरन्तरनुभवविषयं प्रत्यक्षगोचरमनेकान्तत्वं विरोधशङ्कया परिहरतस्ते क्षणक्षयकान्तोपलम्भावलम्बनं बहिरर्थनिराकरणं गण्डूपदभयादजगरमुखप्रवेशमनुसरति ।]
उपलक्षणमेतत, तेन वैयधिकरण्यसंशयानवस्थाऽभावदोषपरिग्रहः । तस्य अनेकान्तस्य सम्बन्धी यो विरोधः तस्माद् बिभ्यतः तव सौगतस्य कथं न विरुध्यते । का ?
शून्यता । क ? बहिरन्तश्च । कुतः ? मानमेयनिराकृतेः इति । एवं मन्यते-अनेका२५ न्तस्य विरोधादिनान्यस्यानुदलंभेनात् (नुपलम्भनात्) सकलशून्यता मानत्राणरहिता सुतरां विरोधमास्तिनुते इति ।
_ 'बहिरन्तरनुभवविषयम्' इत्यादि कारिकाविरणम् । अनेकान्तत्वं प्रत्यक्षगोचरं विरोधं (ध)शङ्कया कृत्वा परिहरतः त्यजतः ते सौगतस्य [क्षण]क्षयकान्तोपलम्भावलम्बनं तदेकान्तदर्शनस्वीकरणं कर्तृ गण्डूपदभयात् मूकसर्पोऽजगरः तस्य मुखप्रवेशमनुसरति । तदनेकान्त
(२) उपकारः । (२) "अर्थक्रियासमर्थ यत्तदत्र परमार्थसत् । अन्यत् संवृतिसत्प्रोक्तं ते स्वसामान्यलक्षणे ॥"-प्र० वा० २।३ । (३) नित्यब्रह्मवत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org