________________
१०।२७-२८]
नयानां सापेक्षत्वम् परित्यागे एकपरमाणुमात्रं तत्त्वं भवेत् इत्युक्तम्, तस्य वानुपलम्भनमिति किमाश्रयं तदेकान्तोपलम्भनम् । परमपि तत्प्रवेशमनुसरति इत्याह-बहिरर्थनिराकरणम् इत्यादि । सुविवेचितमेतत् ।
___ ननु नयदुर्णयचिन्तेयम् आगम एव सिद्धा, तत्किमनया परमार्थविचार इति चेत् ? अत्राह-सापेक्षा इत्यादि ।
[सापेक्षा नया सिद्धाः दुर्णया अपि लोकतः।
स्याद्वादिनां व्यवहारात् कुक्कुटग्रामवासितम् ॥२७॥ लोकव्यवहार' 'कुकुटेन ग्रामवासितमिति संग्रहाभिप्रायः। नवै ग्रामवासितम् अपि तु तत्पाटके गृहे वृक्षे शाखायां मुखादौ वा व्यवहारदर्शनात् । नयाः सामान्याद्यर्पणात् अन्यथा दुणेयाः।]
भिन्नप्रक्रमः अपिशब्दः लोकत इत्यस्यानन्तरं द्रष्टव्यः । ततोऽयमर्थः स्याद्वादिनां १० जैनानां लोकात् लोकतोऽपि न केवलम् आगमत एव सिद्धा निश्चयमुपागताः । के ? इत्याहनयाः। किंभूताः ? इत्याह-सापेक्षाः नयान्तरगोचरानिषेद्धारः । दुर्णयाश्च ततोऽपि सिद्धाः, इत्याह-दुर्णया लोकतोऽपि [५३७ख] सिद्धा इति । किंभूताः ? निरपेक्षाः परविषयनिषेद्धारः । तां दुर्णयत्वेद त्यो (ते दुर्णयाः ।)।
___ [ननु] एकान्तवादिनः कुतः लोकतः सिद्धाः ? इत्याह-लोकव्यवहार इत्यादि । १५ निदर्शनमत्राह-कुक्कुटेन ग्रामे गृहविशेषविशिष्टदेशे वासितम् इति संग्रहाभिप्रायः सामान्यमात्रस्यार्पणात् । नवै नैव ग्रामे सर्वत्र वासितम् अपि तु तत्पाटके ग्रामैकदेशे इति नैगमसिद्धिः प्रधानेतरभावेन उभयार्पणात् । व्यवहारं दर्शयन्नाह-गृह इत्यादि । अत्रापि न चैतत् पाटके अपि तु गृहे वृक्षे शाखायां वासितम् इति योज्यम् । ऋजुसूत्रमाह-सुख(मुख) इत्यादि । आदिशब्देन ताल्वादिपरिग्रहः व्यवहारदर्शनात् नयाः । कथम् ? इत्याह-सामान्य इत्यादि । २० दुर्णयानाह-अन्यथा इत्यादिना । कृतार्थस्मरणार्थं भेदा इत्यादि प्रस्तावान्ते वृत्तमाह
[भेदाभेदात्मनिष्ठेष्वपि मतिविषयेषु स्युनया लक्ष्यमाणाः, लोके सापेक्षवृत्त्या जिनपतिसमये चार्थमात्रावलम्बे। विज्ञया दुर्णयाश्च कुमतिर्भूताः कौविदैः कोविदानाम् ,
अन्यथा इदंतया...'को नु विदधीत मानम् ॥२८॥] भेदाभेदी व्याख्यातलक्षणौ तावेवात्मानौ वस्तुनः स्वभावौ, नैकान्तेन भिन्नौ, तनिष्ठेषु तत्परेष्व[पी] स्यस्यानन्तरे पठितव्यः । किंभूतेषु ? इत्याह-मतिविषयेष्वपि श्रुतविषयेष्वपिशब्दात् । तेषु किम् ? इत्याह-नयाः स्युः ज्ञात्रभिसन्धयो भवेयुः । किंभूताः ? लक्ष्यमाणाः । क्व ? इत्याह-लोके जिनपतिसमये च जिनागमे च । कथं लक्ष्यमाणाः १३०
(१) नयान्तरविषयगौणकारकाः । (२) मुखे एव वासितं शब्द इति भवति इति ऋजुसूत्राभिप्रायः ।
२५ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org