Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। भाषते लवते । हे हंसगते यत्रार्यापूर्वार्धसमं द्वितीयमपि उत्तरार्धमपि भवति । पूर्वार्धस्य प्रथमे द्वादश मात्रा द्वितीयेऽष्टादश तृतीये द्वादश चतुर्थकेऽष्टादश संकलनया षष्टिमात्रा इत्यर्थः अमृतमिव वाणी वाक यस्याः सामृतवाणी तस्याःसंबुद्धौ । छंदांसि विदंति जानंतीति छंदोविदः छंदःशास्त्रज्ञा इत्यर्थः । हंसस्य गतिर्गमनमिव गमनं यस्याः सा हंसगता तस्याः संबुद्धौ हंसगते इत्यर्थः ॥ ५॥ गीतिः । चरणेषु क्रमान्मात्राः-१२, १८, १२, १८ ॥ आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् ॥ कामिनि तामुपगीतिं प्रकाशयते महाकवयः ॥६॥ आर्योत्तरार्धतुल्यमिति । हे कामिनि महाकवयस्तामुपगीति प्रकाशयंते उपगीतिसंज्ञकां प्रकटीकुर्वते इत्यर्थः । यदि आर्योत्तरार्धतुल्यं प्रथमार्धमाप प्रयुक्तं चेत्प्रयोगीकृतं चेत् भवति । प्रथमे द्वादशमात्रा द्वितीये पंचदश तृतीये द्वादश चतुर्थं पंचदश संकलनया५४ चतुष्पंचाशन्मात्रा इत्यर्थः । कामो विद्यते यस्याः सा कामिनी तस्याः संबुद्धौ । महांतश्च ते कवयश्चेति कर्मधारयः। तथा चोक्तं ग्रंथांतरे । आर्याद्वितीयकेर्दै यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीति तां मुनिब्रूते ॥ ६ ॥ उपगीतिः। चरणेषु क्रमाम्मात्राः १२, १५, १२, १५ ॥ आधचतुर्थ पंचमकं चेत् ॥ यत्र गुरुः स्यात्साक्षरपंक्तिः ॥७॥ अथाक्षरपंक्तिः । आद्यचतुर्थमिति । यत्र यस्यां वृत्तौ आयं प्रथमं चतुर्थे पंचमकं गुरु स्यात्साक्षरपंक्तिः ज्ञेया । अक्षरशब्दः पादपूरणार्थः छंदस्तु पंक्तिः प्रतिचरणे इदं लक्षणम् । तथा चोक्तं रत्नाकरे । भोगाविति पंक्तिः॥ ७॥ अक्षरपंक्तिः । चरणाक्षराण ५ ग० भ, ग, ग॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71