________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
भाषते लवते । हे हंसगते यत्रार्यापूर्वार्धसमं द्वितीयमपि उत्तरार्धमपि भवति । पूर्वार्धस्य प्रथमे द्वादश मात्रा द्वितीयेऽष्टादश तृतीये द्वादश चतुर्थकेऽष्टादश संकलनया षष्टिमात्रा इत्यर्थः अमृतमिव वाणी वाक यस्याः सामृतवाणी तस्याःसंबुद्धौ । छंदांसि विदंति जानंतीति छंदोविदः छंदःशास्त्रज्ञा इत्यर्थः । हंसस्य गतिर्गमनमिव गमनं यस्याः सा हंसगता तस्याः संबुद्धौ हंसगते इत्यर्थः ॥ ५॥ गीतिः । चरणेषु क्रमान्मात्राः-१२, १८, १२, १८ ॥
आर्योत्तरार्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् ॥ कामिनि तामुपगीतिं प्रकाशयते महाकवयः ॥६॥ आर्योत्तरार्धतुल्यमिति । हे कामिनि महाकवयस्तामुपगीति प्रकाशयंते उपगीतिसंज्ञकां प्रकटीकुर्वते इत्यर्थः । यदि आर्योत्तरार्धतुल्यं प्रथमार्धमाप प्रयुक्तं चेत्प्रयोगीकृतं चेत् भवति । प्रथमे द्वादशमात्रा द्वितीये पंचदश तृतीये द्वादश चतुर्थं पंचदश संकलनया५४ चतुष्पंचाशन्मात्रा इत्यर्थः । कामो विद्यते यस्याः सा कामिनी तस्याः संबुद्धौ । महांतश्च ते कवयश्चेति कर्मधारयः। तथा चोक्तं ग्रंथांतरे । आर्याद्वितीयकेर्दै यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीति तां मुनिब्रूते ॥ ६ ॥ उपगीतिः। चरणेषु क्रमाम्मात्राः १२, १५, १२, १५ ॥
आधचतुर्थ पंचमकं चेत् ॥ यत्र गुरुः स्यात्साक्षरपंक्तिः ॥७॥
अथाक्षरपंक्तिः । आद्यचतुर्थमिति । यत्र यस्यां वृत्तौ आयं प्रथमं चतुर्थे पंचमकं गुरु स्यात्साक्षरपंक्तिः ज्ञेया । अक्षरशब्दः पादपूरणार्थः छंदस्तु पंक्तिः प्रतिचरणे इदं लक्षणम् । तथा चोक्तं रत्नाकरे । भोगाविति पंक्तिः॥ ७॥ अक्षरपंक्तिः । चरणाक्षराण ५ ग० भ, ग, ग॥
For Private and Personal Use Only