Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ सटीकः। विनीते ॥प्रोक्तमेणनयने यदि सैव स्वागतेति कविभिः कथितासौ ॥२६॥ स्वागताया लक्षणमाह । अक्षरमिति । हे एणनयने सैषा रथोद्धता तदा कविभिः स्वागतेति कथिता। हे विनीते नम्रीभूते यदि यत्र यस्यां व्यत्ययाद्वैपरीत्येन नवममक्षरं दशमवदशमं नवमवत् । नवमो लघुः दशमो गुरुः। द्वौ चकारौ विपरीतार्थसूचकौ । एणस्य नयने इव नयने यस्याः सा तस्याः संबुद्धौ । अयमर्थः । रथोद्धतायां नबमम् अक्षरं गुरु भवति दशमं चाक्षरं लघु भवति स्वागतायां तु नवममक्षरं लघु दशमं चाक्षरं गुरु भवतीति भावः। तदुक्तं रत्नाकरे स्वागतेति रनभाद्गुरुयुग्मम् ॥ २६ ॥ स्वागता । च० अ० ११, ग० र, न, भ, ग, ग, यतिः ७, ४ ॥ बस्वो वर्णः स्यात्सप्तमो यत्र बाले तद्वद्धिंबोष्ठि न्यस्त एकादशायः ॥ बाणैर्विश्रामस्तत्र चेद्वा तुरंगै ना निर्दिष्टा सुभ्र सा वैश्वदेवी ॥ २७॥ अथ वैश्वदेवीलक्षणमाह । हस्व इति । यत्र सप्तमो वर्णों -हस्वः स्यात् । हे बाले षोडशवर्षाभ्यंतरवयस्के तद्वत्पूर्वोक्तप्रकारवत् । हे चिंबोष्ठि एकादशाद्यो दशमो वर्णों व्हस्वः स्यात् । एवं न्यस्तः निक्षिप्तः स्याचेद्यदि तत्र बाणैः पंचभिस्तुरंगैः सप्तभिश्च विश्रामः स्यात् । हे सुभ्र सा नाम्ना वैश्वदेवी निर्दिष्टा कथिता । सुष्टु भ्रुवौ यस्याः सा तस्याः संबुद्धौ । बिंबवदोष्ठौ यस्याः सा एकादशादौ जात एकादशाद्यः । तदुक्तं रत्नाकरे । पंचाश्वैश्छिन्ना वैश्वदेवी मौ यौ ॥२७॥ वैश्वदेवी । च० अ० १२, ग० म, म, य, य. यतिः५,७, सतृतीयकषष्ठमनंतरते नवमं विरतिप्रभवं गुरु चेत् ॥ धनपीनपयोधरभारनते ननु तोटकवृत्तमिदं कथितम् ॥२८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71