Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतबोधः। उपेंद्रवज्राचरणेषु संति चेदुपांत्यवर्णा लघवः कृता यदा ॥ मदोल्लसद्भूजितकामकार्मुके वदंति वंशस्थमिदं बुधास्तदा ॥३३॥ वंशस्थलक्षणमाहाउपेंद्रवज्रेति। हेमदोल्लसद्भजितकामकार्मुके तदा बुधा इदं वंशस्थं वदति तदा कदा यदा उपेंद्रवज्राचरणेषु उपांत्यवर्णा अंत्यसमीपस्था वर्णा एकादशसंज्ञका लघवः संति प्रतिचरणे एकादशो वर्णों लघुस्तदा वंशस्थम् । मदेन उल्लसंत्यौ भ्रुवौ ताभ्यां जितं कामकार्मुकं मदनधनुर्यया सा तत्संबुद्धौ । अंत्यस्य समीपमुपांत्यम् उपांत्याश्च ते वर्णाश्चेति । तदुक्तं रत्नाकरे। जतौ तु वंशस्थमुदीरितं जरौ ॥ ३३ ॥ वंशस्थं । च० अ० १२, ग० ज, त ज, र; यतिः ५, ७॥ यस्यामशोकांकुरपाणिपल्लवे वंशस्थपादा गुरुपूर्ववर्णकाः ॥ तारुण्यहेलारतिरंगलालसे तामिन्द्रवंशां कवयः प्रचक्षते ॥३४॥ इंद्रवंशालक्षणमाह । यस्यामशोकेति । हे तारुण्यहेलारतिरंगलालसे कवयो यस्यां वंशस्थपादा गुरुपूर्ववर्णका भवंति हे अशोकांकुरपाणिपल्लवे तामिंद्रवंशां प्रचक्षते ब्रुवते । अशोकांकुरवत्पाणिपल्लवो यस्याः सा तारुण्यस्य हेलास्ताभी रतिरंगे लालसा अभिलाषो यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । स्यादिंद्रवंशा तौ नौ ॥ ३४ ॥ इंद्रवंशा । च० अ० १२, ग० त, त, ज, र; यतिः५,७॥ यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य तथा गुरु नवमं दशांतिकम् ॥ सांत्यं भवेद्यदि विरतिर्युगग्रहैः सा लक्षिता ह्यमृतलते प्रभावती ॥ ३५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71