Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते ॥ सममर्द्धसमं वृत्तं विषमं च तथा परम् ॥ १३॥ सद्भिः सत्पुरुषैः समं स्थानं युनिगद्यते। विषमं स्थानमयुङ्गिद्यते समं वृत्तं भवति अर्धसमं तथा परं विषमं भवति ॥ १३ ॥
अंध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ॥ - तच्छंदःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥१४॥
तल्लक्षणमाह । यस्य वृत्तस्याघ्रयः पादाश्चत्वारस्तुल्यलक्षणलक्षिता भवति तद्वृत्तं छंदःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते वदंति ॥१४॥
प्रथमांघ्रिसमो यस्य तृतीयश्चरणो भवेत् ॥ द्वितीयस्तुर्यववृत्तं तदर्धसममुच्यते ।। १५॥
यस्य वृत्तस्य प्रथमपादस्तृतीयेन पादेन समो भवेत् द्वितीयपादश्चतुर्थपादवत्तद्वत्तमर्धसमं भवेत् ॥ १५ ॥
यस्य पादचतुष्केऽपि लक्ष्म भिन्न परस्परम ॥ तदाहुर्विषमं वृत्तं छंदःशास्त्रविशारदाः ॥१६॥ यस्य पादचतुष्टयेऽपि परस्परं लक्षणं भिन्नं भेदयुक्तं भवति ताद्विपमं वृत्तं छंदःशास्त्राविशारदा आहुः कथयति ॥ १६ ॥
आरभ्यैकाक्षरात्पादादेकैकाक्षरवर्धितैः ॥ पृथक्छंदो भवेत्पादैावत्पड्रिंशतिं गतम् ॥ १७॥ एकैकाक्षरात्पादादारभ्य आदौ कृत्वैकैकमक्षरं वर्धितं येषु पादेषु ते एकैकाक्षरवर्धितास्तैः एकैकाक्षरवर्धितः पादैः पृथक छंदो भवेत् पादरित्थंभूतैर्यावत् षड्विंशतिं गतम् । तथा च प्रथमजातायुक्तायां
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71