Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। यदार्याद्वितीयकेऽर्धे लक्षणं गदितं कथितं वर्तते तल्लक्षणम् उभयो. रपि दलयोः स्यात्तदा तामुपगीतिं मुनिः पिंगलो ब्रूते भणति ॥२॥ आशिकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ॥ सोद्गीतिः किल कथिता तद्वद्यत्यंशभेदसंयुक्ता॥३॥ यस्या आर्यायाः शकलद्वितयं खंडद्वयं व्यत्ययरचितं प्रथमे स्थाने द्वितीयं द्वितीयस्य स्थाने प्रथमं लक्षणं भवेत् प्रथमे दले मात्रा २७ द्वितीयदले मात्रा ३० सा उद्गीतिः किलशब्दो निश्चये एतीवं किल श्रूयते । कथिता तद्वत् तेनैव प्रकारेण यतयश्च अंशाश्च यत्यंशाः तेषां भेदस्तेन संयुक्ता ॥ ३ ॥ आर्या पूर्वार्धं यदिगुरुणैकेनाधिकेन निधने युक्तम् ॥ इतरत्तद्वनिखिलं दलं यदीयमुदितैवमायोगीतिः॥४॥ इति गीतिप्रकरणम् । यदि आर्यापूर्वार्धमेकेनाधिकेन गुरुणा निधने अवसाने युक्तं भवति तदीयमितरद्वितीयं दलं निखिलं समस्तं तद्वत्तस्येव पूर्वदलबद्भवति तदाएवमार्यागीतिरुक्ता उदिता समस्तपादेषु कलादात्रिंशत्३२ भवंति ॥ ४ ॥ इति चतस्रो गीतयः ॥ इति गीतिप्रकरणम् ॥ षड्रिपमेऽष्टौ समे कलास्ताश्च समे स्यु निरंतराः॥न समात्र पराश्रिताः कला वैतालीयें ते रलौ गुरुः ॥ १॥ अत्र वैतालीये छंदसि विषमे पादे प्रथमतृतीयरूपे षट् कला भवंति समे पादे द्वितीयचतुर्थरूपेऽष्टौ कला भवति च पुनस्ताः कलाः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71