Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
४७
श्वषड्भिः यतिः सप्तभिः अश्वैः सप्तभिः षडभिः यतिः सा सुवदना ज्ञेया । त्रिस्त्रीन् वारान् रगण जगणौ ततो गुरुलघू इह ईदृशेन लक्ष णेन वृत्तनाम छंदो भवेत् ॥ २० ॥ प्रकृतिः । म्रनिर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥२१॥ अथ प्रकृतिजाती मरभनगणैस्ततो यानां त्रयेण यगणत्रयेण इयं स्रग्धरा कीर्तिता । किंभूता स्रग्धरा त्रिमुनियतियुता सप्तभिस्ततः सप्तभिस्ततः सप्तभिर्विरामसहिता ॥ २१ ॥
आकृतिः । भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिदम् ॥२२॥
अथ आकृतिजातौ भगणरगणौ ततो नगणरगणनगणास्ततोरगणनगणी अथ गुरुः इदं भद्रकं नाम छंदः । किंभूतं दिगर्कविरमं दशभिर्दादशभिश्च विरामो यत्र तत् । अत्र हि पादपूरणे ॥ २२ ॥ विकृतिः । यदिह नजौ भजौ भ्जभलगास्तदाश्वललितं हरार्कयति तत् । मत्ताक्रीडं मौ भ्नौ नौ न्लौ गिति भवति वसुशरदशयतियुतम्॥२३॥
अथ विकृतिर्जातिः यदिह शास्त्रे नगणजगणौ भगणनगणभगणजगणभगणलघुगुरवश्व स्युस्तत् अश्वललितं नाम छंदः । किभूतं तत् हरार्कयति । हरैकादशभिरकादशभिर्यतिविरामो यत्र तत् । द्वौ मगणौ भगणनगणौ द्वौ गणौ नगणलघु गुरुश्च इति लक्षणेनमत्ताक्रीडं नाम । कीदृशं मत्ताक्रीडं वसुशरदशयतियुतमष्टपंचदशभिर्यतिस्तया सहितम् ॥ २३ ॥ संकृतिः। भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥२४॥
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71