Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः । पदं चतुर्थ पदं स्थानमधिवसति प्रामोति निखिलं समस्तमपरमन्यत् उपरितनसमं पाश्चास्यसमानं ललितपादत्रितयमिह शास्त्रे पादचतुसर्वे तदा अमृतधारानाम छंदो भवति। किंभूता अमृतधारा अवसिते अवसाने गुरुयुग्मं यस्याः सा अवसितगुरुयुग्मा ॥५॥ इति पादचतुरूर्ध्वप्रकरणं समाप्तम् । सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता ॥ त्र्यंत्रिंगतभनजला गयुताः जगौ चरममेकतः पठेत् ॥१॥ सजमादिमे इति । आदिमे प्रथमे पादे सजं सगणजगणी पुनः सगणलघू भवतः । अथ द्वितीये पादे नगणसगणजगणगुरुषु सत्सु उद्गतानाच छंदः त्रिशब्दस्तृतीये वर्तते त्रिश्चासावंघ्रिश्च व्यंघ्रिस्तृतीयपादस्तत्र गतास्ते च ते भगणनगणजगणलघवो गुरुयुताः स्युः चर. मं पश्चिमं पादं सगणजगणसगणा जगणगुरू च यदि एकतः एकत्र पठेत् भणेत् तदा उद्गतानाम छंदो भवति ॥ १॥ चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतं नौ भगौ भवति सौरकं चरणे यदीह भवतस्ततीयके ॥२॥ चरणत्रयमिति । यदि इह छंदसि तृतीये चरणे नौं रगणनगणी भगौ भगणगुरू च भवतः अपरं तृतीयवय सकलं दलं चरणत्रयं यदि उद्गतागतं लक्ष्म लक्षणं भजति तदा सौरभंकं नाम छंदो भवतिर नयुगं सकारयुगलं च भजति चरणं तृतीयकं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71