Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। स्यादयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुयंदा यवान्मतीयम् ॥ १२॥ अयुग्मके विषमे पादे रगणजगणौ ततो रगणजगणौ तु पुनः समे पादे जगणरगणौ ततो जगणरगणौ गुरुश्च तदा इयं यवाचवशब्दात्परा मती यवमतीत्यर्थः ॥ १२॥ इति वृत्तरत्नाकराख्ये छंदसि अर्धसमवृत्तरूपश्चतुर्थोऽध्यायः ॥ ४॥ मुखपादोऽष्टभिर्वणः परेस्मान्मकरालयैः ॥क्रमादृद्धा सततं यस्य विचित्रैःपादैःसंपन्नसौंदर्य तदभिहितममलधीभिः पदचतुरूर्वाभिधं वृत्तम् ॥१॥ अथ विषमवृत्ताध्यायो व्याख्यायते । मुखपाद इति । यस्य वृत्तस्य मुखपाद आदिपादोऽष्टभिर्वणः अस्मात् मुखपादात्परे अग्रेतनास्त्रयः पादा मकरालयैश्चतुर्भिरक्षरैः क्रमात् क्रमेण वृद्धा भवंति द्वितीयपादो द्वादशभिरक्षरैः तृतीयःपादः षोडशाक्षरैश्चतुर्थों विंशत्यक्षरैः अमलधीभिः पंडितैस्तत् पदचतुरूर्वाभिधं वृत्तमभिहितं भणितं किंभूतं तत् सततमनवरतं यस्य वृत्तस्य विचित्रैः नानाविधैः पादैः संपन्नसौंदर्यं जातचारुत्वम् ॥ ११॥ प्रथममुदितवृत्ते विरचितविषमचरणभाजि, गुरुकयुगलनिधने इह कलित आडा विधृतरुचिरपदविततियतिरिति भवति पीडः ॥२॥ प्रथममिति इह शास्खे प्रथममुदितवृत्ते पूर्व प्रतिपादिते वृत्ते पदचतुरुभिधे वृत्ते आडा कलितः पीडोनाम छंदो भवति । आपीड इत्यर्थः । किंभूते वृत्ते विरचितान् विषमान् चरणान् पादान् भजतीत्येवंशीलः स तथा तस्मिन्। किंभूतः आपीडः गुरुयुगलं निधनेऽवसाने यस्य स तथा । पुनः किंभूतः । विधृता रुचिरा पदविततो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71