Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
वृत्तरत्नाकरः ।
सगणनगणौ नगणसगणयुक्तौ यदि स्तः अपरमन्यत् पादंत्रितयमिह शास्त्रे पूर्वसदृशं पाश्चात्यछंदः समानमापे निश्चितं भवेत् यदि प्रथमांघ्रौ यतिर्यस्मिंस्तत्प्रथमांत्रियति । प्रविततमतिभिर्विस्तीर्णबुद्धिभिर्नरैः खलु निश्चितमित्येवंभूतं वर्धमानं छंदो गदितं कथितम् ॥ २ ॥ अस्मिन्नेव तृतीयपादके तजराः स्युः प्रथमे च विरतिरार्षभं वदंति तच्छुद्धविराटपुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ३ ॥
अस्मिन्नेवेति । अस्मिन्नेव वर्द्धमानसंज्ञके छंदसि तृतीयपादके तजराः तगणजगणरगणाः स्युः प्रथमे च पादे विरतिः कार्या । अपरं पादत्रितयं यदि पूर्वसमं स्यात् बुधास्तत् शुद्धविराट्रपुरः स्थितमार्ष छंदो वदंति शुद्धविराडार्षभमित्यर्थः ॥ ३ ॥ इत्युपस्थितप्र - चुपितप्रकरणम् ॥
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ॥ यच्छंदो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ १ ॥ इति वृत्तरत्नाकराख्ये छंदसि पंचमोऽध्यायः ॥ ५ ॥
विषमाक्षरेति । विषमाक्षराः पादा यस्मिंस्तद्विषमाक्षरपादं छंदः । यस्येदमेव अष्टदश सप्तनवाक्षरं पादवृत्तं तथा पादैरसमं त्रिपादं षट्पादं त्रिषट्पादभेदात् दशधर्मवत् । यथा । दश धर्मे न जानंति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रांतः क्रुद्धो बुभुक्षितः । त्वरमाणश्च भीरुश्व लुब्धः कामी च ते दश । इयं खलु षट्पदी गाथा । इत्येवमादि यच्छंदोत्र नोक्तं तत्पूर्वसूरिभिरित्येषा गाथा प्रोक्ता किंनाम गाथा । गीतिका कलिका वेल्लितका द्विपदी ध्रुवकौत्साहचत्वरीपदुलिकाप्रभृति तत्सर्वं गाथासंज्ञकम् ॥ १ ॥ इति वृत्तरत्नाकराख्ये छंदसि विषमवृत्तनिरूपणाख्यः पंचमोऽध्यायः ॥ ५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71