Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। इदानीमर्धसमवृत्ताध्यायो व्याख्यायते ॥ विषमे दले प्रथमदतीये पादे यदि दो सगणौ ततः सगणलघुगुरवो भवंति पुनर्यदा युजि समे दले द्वितीयचतुर्थपादे द्वौ भौ भगणौ ततो भात् भगणात् दौ गुरू भवतस्तदा उपचित्रनाम छंदः अत्र तृतीयपादः प्रथमपादसदृशः चतुर्थपादो दितीयपादसदृशः एवं सर्वत्रार्घसमच्छंदसि शेयम् ॥ १॥ चेद्यदि ओजगतं विषमपादोत्पन्नं लक्षणं भगणत्रयं प्रथमं ततो गुरुणी गुरुद्वयं च पुनः युजि समे पादे नगणजगणी जगणयगणसहितौ भवेतां तदा द्रुतमध्यानाम छंदो भवति ॥२॥ सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्रौ ॥३॥ विषमे पादे सगणयुग्मात्सगणगुरू चेयदि भवतः इह युजि समें पादे भौ भगणौ ततः पुनर्भगणात् द्वौ गुरू यदि भवतस्तदा वेगवतीनाम छंदो भवति ॥३॥ __ ओजे तपरौ जरौ गुरुश्चेत् सौ ज्यौ भद्रविराड् भवेदनोजे ॥४॥ मोजे विषमे पादे तगणात्परौ जगणरगणौ गुरुश्चेद्भवति अनोजें समे पादे मसौ जगणगुरू च तदा भद्रविराट नाम छंदो भवेत्॥४॥ असमे सजौ सगुरुयुक्तो केतुमती समे भरनगादुः॥५॥ आख्यानकी तौ जगुरू च ओजे जतावनोजे जगुरू गुरुश्चेत् ॥६॥ असमे विषमे पादे सजौ सगणजगणौ सगणगुरू ताभ्यां युक्ती भवेता समे पादे भगणरगणनगणगुरवः एभ्यः पुनर्गुरुरेको यदि भवति तदा केतुमतीनाम छंदः स्यात् ॥ ५ ॥ भोजे विषमे पादे तौ दो तगणौ जगुरू जगणगुरू पुनर्गुमरेकश्च पुनरनोजे समे पाद For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71