Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। अथ संकृतिर्जातिः इह छंदोजातौ भतनाः सभी भनयाश्च एत गणा यदि भवेयुस्तदा तन्वी नाम छंदो भवति। अत्र पंचसप्तद्वादशभितिः कार्या ॥ २४ ॥ अभिकृतिः । क्रौंचपदा भ्मौ स्भौ नननोन्गाविषुशरवसुमुनिविरतिरिह भवेत् ॥ २५॥ अथ अभिकृतिर्जातिः इह शास्त्रे चेद्यदि भगणमगणौ सगणभगणौ चत्वारो नगणा एको गुरुश्च इषुभिः शरैः पंचभिः वसुभिरष्टभिमुनिभिः सप्तभिश्च विरातिः स्यात्तदा क्रौंचपदा नाम छंदो भवेत्॥२५॥ उत्कृतिः । वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजंगविजृभितम् । मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥२६॥ अथ उत्कृतिजाती ममतगणास्ततो नयुगं नगणयुगुलं ततो नरसगणलघुगुरवः एतैर्भुजंगविजूंभितंनाम छंदो भवति । कीदृशं तत् वस्वीशाश्वच्छेदोपेतमष्टैकादशसप्तभिश्छेदो विरामस्तेनोपेतं युक्तम् । एको मगणस्तता नगणाः षट् ततः सगणस्ततो गुरुद्वयमित्यमुना प्रकारेण यदि नवषट पंचभिर्यतिस्तया युतमुपेतं तदा अपवाहाख्यं नाम छंदः स्यात् ॥ २६ ॥ इति समवृत्तप्रकरणम् । यदीह नयुगलं ततः सप्त रेफास्तदा चंडवृष्टिप्रयातो भवेदंडकः ॥ १ ॥ अथ चंडवृष्टयादिकदंडकानाह॥यदीहति । यदि इह दंडकजातो आदौ नयुगलं नगणयुग्मं ततः सप्त रेफाः सप्त रगणास्तदा चंडवृ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71