Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ वृत्तरत्नाकरः । सगणजगण सगणैः रचिता या सा जलोद्धतगतिर्नाम छंदः । चतुर्भिगणैर्भुजगप्रभातं नाम छंदी भवेत् । चतुर्भिः रैः रगणैः स्रग्विणी संमता कथिता । नगणभगणजगणरगणैर्भुवि पृथिव्यां प्रियंवदा नाम छंदो भवेत् । तगणयगणौ तगणयगणौ च यत्र सा मणिमाला नाम परं गुहवः छिन्ना गुहः कार्तिकेयस्तस्य वक्त्राणि मुखानि षट् तत्संख्यया यतिर्विधेया तगणभगणौ जगणरगणौ च यत्र सा धीरैर्मनीषिभिः ललिता अभाणि। चत्वारो जगणा यत्र तत् मौक्तिकदाम छेदः इह अस्मिनशास्त्रे स्यात् । तगणयगणौ तगणयगणौ च इत्यनेन प्रकारेण यत्र सा मुनिना पुष्पविचित्रा निर्दिष्टा कथिता । जगणरगणौ तु पुनः जगणरगणौ यतो भवतः सा विभावरी नाम । सगण जगणसगण जगणैः प्रमिताक्षरानाम उदिता कथिता । नगणनगणभगणरगणसहिता या सा उज्ज्वला अभिमता । द्वौ मगणौ ततो द्वौ यगणौ यत्र सा वैश्वदेवी परंतु पंचाश्वश्छिन्ना पंचाक्षरैः प्रथमा यतिःततोऽश्वैःसप्तभिर्द्वितीया यतिः कार्या । अब्धयश्चत्वारों गान्यष्टौ तैर्वि राम यत्र मगणभगणौ सगणमगणौ च स्याच्च सा जलधरमाला नाम छंदः । नगणजगणाभ्यां परौ भगणयगणौ यदि स्तस्तदा इह छंदोजाती नवमालिनी भवति । स्वरैः सप्तभिस्ततः शरैः पंचभिर्विरतिविरामो यत्र च द्वौ नगणौ द्वौ रगणौ च भवतः सा प्रभा नाम छंदः । नगणजगणौ अथ जगणरगणौ यत्र स्तः सा मालती नाम भवतेि । नगणजगण जगणात्परो यगणः स्यात्तदा इति तामरसं नाम त्वं वद कथय ॥ १२ ॥ अतिजगती । तुरगरसयतिन ततौ गः क्षमा । नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम् । चतुर्ग्रहैरिह रुचिरा ज्भौ सरौ गः । वेदै रंध्रेत यसगा मत्तमयूरम् । सजौ जतौ गो भवति मंजुभाषिणी । ननततगुरुभिश्चंद्रिकाश्वर्तुभिः ॥ १३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71