Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
वृत्तरत्नाकरः ।
लिता या विततिः पदश्रेणिस्तया रचिता निबद्धा गणसमूहा यस्यां सा श्रुत्योः सुखं करोतीति श्रुतिसुखकृत् क्व सति जिजकारे जकारस्य शिरसि उपगतवतीत्यर्थः । स्वजानाम छंदः ॥ ११ ॥
अष्टाव गाद्वयभ्यस्ता यस्याः सानंगक्रीडोक्ता ॥ दलमपरमपि वसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति ॥ १२ ॥
यस्या अर्धे दले अष्टौ गा गुरवो भवंति कथंभूता गुरवः द्वयभ्यस्ता द्विगुणिताः षोडश गुरव एव स्युरित्यर्थः । तथापरं द्वितीयमपि दलं वसुभिरष्टभिर्गुणिता ये सलिलनिषयश्चत्वारो लघवो यत्तत्कविभी चिता पदविततिः पदश्रेणिर्यस्य तत् सा अनंगक्रीडानाम छंदो भवति ॥ १२ ॥ त्रिगुणनलघुरवसितिगुरुरिति रिह रुचिरा ।। १३ ।। इति मात्राप्रकरणम् ॥ इति भट्टकेदाररचिते वृत्तरत्नाकरे द्वितीयोऽध्यायः ॥ २ ॥
दलयुगकृततनु
त्रिगुणास्त्रिभिर्गुणिता नव लघवो यस्यां सा त्रिगुण नव लघुः अवसित अवसाने गुरुर्यस्याः सा अवसितिगुरुः इत्येवं दलयुगेन खंडयुग्मेन कृता तनुर्यस्याः सा दलयुगकृततनुः रुचिरानामेति छंदः ॥ १३ ॥ इति वृत्तरत्नाकराख्ये छंदसि मात्राप्रकरणवृत्तौ द्वितीयोऽध्यायः ॥ २ ॥
उक्ता गः श्रीः ॥ १ ॥ अत्युक्ता गौ स्त्री ॥ २ ॥ मध्या मो नारी, रो मृगी ॥ ३ ॥ प्रतिष्ठा गौ चेत्कन्या ॥ ४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71