Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
वृत्तरत्नाकरः ।
ता वसवोष्टौ लघवो यस्यां सा द्विकगुणितवसुलघुः अचलधृतिर्नाम छंदो भवति तथा आपदाकुलकं छंदो यावद्विकगुणित वसुलघु रिति वर्तते तेनोत्तरत्र षोडश मात्रा अधिक्रियते ॥ १ ॥
मात्रासमकं नवमालूगंतम् ॥ २ ॥ उपचित्रा नवमे रयुक्ते ॥ ३ ॥ अष्टाभ्यो भादावुपचित्रा ॥ ४ ॥ जान्लावथाम्बुधेर्विश्लोकः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मात्रासमकं छंदः स्याद्यत्र नवमो लू लघुः । ग् गुरुः अंते यस्य तत् षोडश मात्रा: । अष्टाभ्यो मात्राभ्यः परयुक्ते दशमयुक्ते नवमे मात्राषोडशके उपचित्रा भवति । अष्टाभ्यो भगणस्तस्माद्दौ गुरू यदीयौ भवतस्तदा उपचित्रा स्यात् । अंबुधेश्वतसृभ्यो मात्राभ्यः परो जगणो यदि भवति न्लौ वा नगणलघू वा भवतस्तदा विश्लोकोनाम छंदो भवति ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥
तद्युगलाद्वानवासिका स्यात् ॥ ६ ॥
तद्युगलादम्बुधियुग्मात् अष्टाभ्यो मात्राभ्यः परो जो यदि वा लौ तदा वानवासिकानाम छन्दो भवति ॥ ६ ॥ बाणाष्टनवसु यदि लश्चित्रा ॥ ७ ॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रा समादिपादैः कलितम् ॥ अनियतवृत्त परिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ ८ ॥
बाणाष्टनव पंचमाष्टनवमात्रासु यदि लो लघुस्तदा चित्रानाम छंदः ॥ ७ ॥ यदिति । अतीतं पूर्वं कृतं विविधं नानारूपं लक्ष्म लक्षणं तेन कलितैः प्रागुक्तमात्रासमा दिलक्षणसहितैः पादैर्यच्छन्दः
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71