Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
युक्तौ यदि भवतस्तदा रुक्मवतीयं भवति । मभसगाः मगणमगणसंगणगुरवस्तैर्युक्ता यदा भवति तदा मत्ता ज्ञेया । भगणमगणसगणाचेद्याद गुरुः भवति तदा चंपकमालानाम छंदः। नगणजगणरगणगुरुभिर्युक्ता यदि भवेत्तदा मनोरमा भवति ॥ १० ॥ त्रिष्टुप् । जौ ज्गौ गुरुणेयमुपस्थितोक्ता । स्यादिन्द्रवज्रा यदि तौ जगौगः । उपेंद्रवज्रा जतजास्ततो गौ । अनंतरोदीरितलक्ष्मभाजी पादौ यदीयाबुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु स्मरंति जातिष्विदमेव नाम ॥ सांद्रपदं भ्तौ नगलघुभिश्च । नजजलगैर्गदिता सुमुखी । दोधकवृत्तमिदं भभभादौ । शालिन्युताम्तौ तगौ गोब्धिलोकैः । वातोर्मीयं गदिता म्तौ तगौ गः पंचरसैः श्रीभंतनगगैः स्यात् । म्भौ न्लौ गः स्याद्भमरविलसिता । रानराविह रथोद्धता लगौ । स्वागतेति रनभाद्गुरुयुग्मम् । ननसगगुरुरचिता वृत्ता । ननरलगुरुभिश्च भद्रिका । इयेनिका रजा रलौ गुरुर्यदा। उपस्थितमिदं ज्सौ तागकारौ ॥११॥ त्रिष्टुभि जातौ तगणजगणौ जगणगुरू च गुरुणा कृत्वा यदि तदेयमुपस्थिता उक्ता कथिता । दो तगणौ जगणगुरू गुरुश्च यदि भवति तदा इंद्रवज्रानाम छंदः स्यात् । जतजा जगणतगणजगणास्ततोऽग्रतो गुरू द्वौ च यदि भवतस्तदा उपेंद्रवज्रा भवति । अनंतर शब्दे पाश्चात्त्यवृत्तद्वयामिंद्रवज्रीपेंद्रवज्राख्यं गृह्यते अनंतरमुदीरितम
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71