Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ वृत्तरत्नाकरः। तथा परके पुरोवर्तिनि सप्तमकेंते नलघौ सात मुखलात्परः पदानयमो भवति षष्ठगणांते यतिरित्यर्थः । पंचमीत्वात्पूर्वसंग्रहः । अत्र पंचमी अक्सूिचिका दृश्यते । यथा पाटलिपुत्रादृष्टो देव इत्यत्र पाटलिपुत्रपुरादाक् इति गम्यते। चरमेधै द्वितीयदले. पंचमकेंते सति पंचमगणस्थानवर्तिनि नलघौ सति तस्मान्मुखलघुतः परतः पदनियमो भवति चतुर्थगणांते यतिरित्यर्थः । इह द्वितीयेऽर्धे षष्ठी लो लघुर्भवति ॥ २॥ त्रिष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याम्॥ पथ्येति नाम तस्याश्छंदोविद्भिः समाख्यातम्॥३॥ यस्या आर्यायाः द्वयोराधेषु त्रिष्वंशेषु गणषु द्वादशमात्रासु पादो दृश्यते शेषं प्रकटम् ॥ ३ ॥ संलंध्य गणत्रयमादिमं शकलयोयोर्भवति पादः ॥ यस्यास्तां पिंगलनागो विपुलामिति समाख्याति ॥४॥ यस्या आर्याया द्वयोः शकलयोरादिमं गणत्रयं विलंध्यातिक्रम्य पादो भवति तां पिंगलश्चासौ नागश्च पिंगलनागः पिंगलाचार्यस्य शेषरूपत्वात् । विपुलार्यामिति समाख्याति ॥ ४ ॥ उभयायोर्जकारौ द्वितीयतुर्यों गमध्यगौ यस्याः॥ चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥५॥ यस्या आर्यायाः उभयार्धयोद्वितीयतुर्यों जकारौ स्यातां जकारी किंभूतौ गुरू मध्यगतौ यस्याः चपलेति नाम नागराजेन प्रकीर्तित कथितम् ॥ ५॥ आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71