Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achary सटीकः। २७ इत्युक्ताश्छंदसां संज्ञाः क्रमशो वच्मि सांप्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२॥ इति भट्टकेदारविरचिते वृत्तरत्नाकरे प्रथ मोऽध्यायः॥१॥ इति छंदसां संज्ञा जात्याख्याः क्रमशः क्रमेण उक्ताः । सांप्रतं सर्ववृत्तानां लक्षणं चिह्न वच्मि भणामि मात्रावृत्तान्यार्यादीन अनु पूर्व यस्मिल्लक्षणे तन्मात्रावृत्तानुपूर्वकं लक्षणं भणामीति संबंधः॥२२॥ इति वृत्तरत्नाकराख्यच्छंदःशास्त्रस्य टीकायां प्रथमोऽध्यायः ॥ १ ॥ आर्यालक्षणमाह ॥ लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठोऽयं न लघुर्वा प्रथमेऽर्धे नियतमार्यायाः॥१॥ ॥ ॥ सांप्रतमार्यालक्षणमाह । आर्यायाः प्रथमेधैं एतल्लक्ष्म लक्षणं नियतं निश्चितं वर्तते । एतत्कि सप्त गणा गोपेताः इहास्यामार्यायां विषमे स्थाने प्रथमतृतीयपंचमसप्तमरूपे जगणो न भवति षष्ठश्चायं जगणो भवति अथवा न लघुर्भवति इत्यापिंथमदले निश्चितं लक्षणं भवति शिष्येण पृष्टम् आर्यायाः क्वचित्पदनियमोऽस्ति । गुरुराह॥१॥ षष्ठे द्वितीयलात्परकेंते मुखलाच्च सयतिपदनियमः ॥ चरमर्धे पंचमके तस्मादिह भवति षष्ठो लः ॥२॥ षष्ठे द्वितीयेत्यादिव्याख्या । षष्ठंऽते षष्ठस्थानवर्तिनि नलघुरूपे द्वितीयलाद्वितीयलघोःप्रारभ्य नियमो भवति षष्ठे नगणलघौ प्रारभ्य नियमो भवति षष्ठे नगणलघौ सति प्रथमलघुस्थाने यतिरित्यर्थः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71