Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः । २९ यस्याः॥ शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥६॥ यस्या आर्याया आद्यं दलं प्रथमं चपलागतं चपलाश्रितं लक्ष्म लक्षणं समस्तं भजेत आश्रयेत शेषे पश्चिमेऽर्धे पूर्वजं लक्ष्म यस्याः सा पूर्वजलक्ष्मा मुखे आदौ चपला मुखचपला सा उदिता कथिता मुनिना पिंगलेन ॥ ६ ॥ प्राक्प्रतिपादितमः प्रथमे प्रथमेतरे तु चपलायाः॥ लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥७॥ . इत्यार्याप्रकरणम् । प्रथमेर्दै प्राक् पूर्वे प्रतिपादितं कथितं सप्तगणा गोपेता भवति । नेह विषमे ज इत्यादिलक्षणमाश्रयेत पुनः प्रथभेतरे तु चरमेऽर्दै चपलायाः लक्ष्म लक्षणमाश्रयेत सा विशुद्धधीभिर्जघने पश्चाद्भागे चपला इव जघनचपलोक्ता ॥ ७॥ इति पंचार्याभेदाः ॥ इत्यार्याप्रकरणम् ॥ आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवदुभयोः ॥ दलयोः कृतयतिशोभां तां गीति गीतवान् भुजंगेशः ॥१॥ अधुना गीतिलक्षणमाह ॥ यदि कथमप्यार्यायाः प्रथमदलोक्तं लक्षणमुभयोरपि दलयोर्भवेत् तां गीति भुजंगेशः पिंगल: गीतवान् । गीतिं किंविशिष्टां कृता यतिििवच्छेदैः शोभा यस्याः सा तथा ताम्। आर्याद्वितीयकर्धे यद्गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि दलयोरुपगीत तां मुनिब्रूते ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71