Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तरत्नाकरः। पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ॥ पुरःस्थितेन तेन स्याल्लघुतापि क्वचिद्गुरोः॥१०॥
इहच्छन्दास पादादौ वर्णस्य संयोगः क्रमसंज्ञकः स्यात्तेन वर्णस्य संयोगेन पुरःस्थितेन अग्रस्थितेन क्वचिद्गुरोपि लघुता स्यात् ॥ १० ॥ इदमस्योदाहरणम् ॥ तरुणं सर्पपशाकं नवौदनं पिच्छिलानि च दधीनि ॥ अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति ॥ ११॥
अस्योदाहरणं दर्शयति । हे सुंदरि स्तोकद्रव्येण ग्राम्यजनो मिष्टं मधुरमश्नाति भुंक्त कि तरुणमभिनवं सर्पशाकं नवांकुरम् पिच्छि. लानि चिक्कणानि दधीनि दुग्धं च ॥ अवार्यायां या इत्येतस्मिन् पादादिस्थितेन सुंदर इत्येतस्य यदि गुरुत्वं क्रियते तदा युक्तपरत्वात्पंचलो भवति चतुर्मात्रागणाः आर्यायाः कर्तव्याः तस्माच्छंदःकरणाय क्वचिद्गुरोरपि लघुत्वं भवतीति ॥ ११ ॥
अधिभूतरसादीनां ज्ञेया संज्ञान लोकतः ॥ ज्ञेयः पादश्चतुर्थोशो यतिविच्छेदसंज्ञिका ॥ १२ ॥
उत्तरत्र अंकैः संज्ञामाह ॥ अब्धयः समुद्राश्चत्वारः ४ भूतानि पंच महाभूतानि ५ रसाः षट् ६ आदिशब्दग्रहणेन अश्वाः पर्वताः मुनयश्च सप्त७ अष्टौ वसवश्व ८ नव ग्रहाःरंध्राणिच ९ दश दिशः १० एकादश रुद्राः११ द्वादश सूर्याः १२त्रयोदश विश्वेदेवाः १३ चतुर्दश भुवनानि १४इत्यादयो गृह्यते । एताः संज्ञा लोकतः पूर्वाचार्येभ्योऽवगंतव्याः ज्ञेयाः। चतुर्थःअंशः पादो ज्ञेयः यतिर्विरतिः किं कथ्यते विच्छेदसंज्ञिका ॥ १२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71