Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः ।
२३
इदानीं तेषामक्षराणां लक्षणमाह ॥ सर्वगुरुर्मः मगणःsss मुखे आदौ अंतर्मध्ये लो लघुर्ययोस्तौ मुखांतल यगणरगणौ मुखलघु र्यगणः । ss मध्यलघू रगणः । ऽ अंते अवसाने गुरुर्लघुश्वययो
अंतगलौ सतौ सगणतगणौ अंतगुरुः सगणः ॥S अंतलघुस्तगणः ss। गुरुमध्ये आद्ये ययोस्तौ उभौ जगणभगणौ मध्यगुरुर्तगणः । ऽ । आदिगुरुर्भगणः ॥ त्रीणि लघूनि यस्य सः त्रिलघुर्नगणः ॥ अत्रास्मिन् छंदसि अष्टौ गणास्त्रिकारुयवयवा भवंति ॥ ७ ॥
ज्ञेयाः सर्वोतमध्यादिगुरवोऽत्र चतुष्कलाः ॥ गणाचतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ ८ ॥
आर्यादिषु स्थिताः पंच गणाः ज्ञेयाः । किंविशिष्टाः चतुष्कलाः चतुर्मात्राः ते के पंच गणाः सर्वोतमध्यादिगुरवः सर्वश्व अंतश्च मध्यश्व आदिश्च ते गुरवो येषां ते सर्वातमध्यादिगुरवः किंभूतास्ते लघूपेताः पंचमी गणश्चतुर्लघुस्तेनीपेताः युक्ताः । स्थापना चैषा सर्वगुरु: sss अंत्यगुरुः ॥5 मध्यगुरुः । । आदिगुरुः 5 | | चतुर्लघुः । । । । इति ॥ ८ ॥
सानुस्वारो विसर्गातो दीर्घो युक्तपरश्च सः ॥ वा पादांते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मातृको सृजुः ॥ ९ ॥ सानुस्वारः सह अनुस्वारेण वर्तत इति सानुस्वारः विसर्गातः विसर्गः अंते यस्य सः विसर्गातः दीर्घः युक्तपरः युक्तं संयोगाक्षरं परं यस्मात्स युक्तपरः एतादृशः वर्णः वा विकल्पेन पादांत गुरुर्भवति। असौ गुरुस्तु पुनः स च मस्तारे वक्रो ज्ञेयः अन्यो अस्माद्विपरीतो मातृकः एकमातृकः स च प्रस्तारे ऋजुः पंचलघुर्भवति । (5) गुरुः ( । ) लघुः ॥ ९॥
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71