Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
na Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ सटीको वृत्तरत्नाकर
प्रारभ्यते
श्रीगणेशायनमः ॥ सुखसन्तानसिद्ध्यर्थे नत्या ब्रह्माच्युतार्चितम् ॥ गौरीविनायकोपेतं शंकरं लोकशंकरम् ॥ १॥ तेन केदारेणेदं छंदः क्रियते । किं कृत्वा शंकरं नत्वा किमर्थ नत्वा सुखसंतानसिद्धयर्थं सुखस्य संतानोऽविच्छेदस्तस्य सिद्धिनिष्पत्तिस्तदर्थ नत्वा । अथ सुखं च संतानश्च सिद्धयश्च सुखसंतानसिद्धया:तदर्थ नत्वा सुखमात्यन्तिकं मोक्षलक्षणं संतानः पुत्रपौत्रादिः सिद्धयोऽणिमादयस्तदर्थ तेन केदारेणेदं वृत्तरत्नाकरं नाम छन्दः क्रियते इति संबन्धः। किंविशिष्टं शंकरं ब्रह्मा च अच्युतश्च ब्रह्माच्युतौ ता. भ्यामचितं पूजितं । पुनः किंविशिष्टं गौरीविनायकोपेतं गौरी च विनायकश्च गौरीविनायको ताभ्यामुपेतं सहितम् । पुनः किंविशिष्टं लोकशंकरं लोकानां शं सुखं करोतीति लोकशंकरस्तम् ॥ १॥ वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद्विजोत्तमः ॥ तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥२॥ वेदार्थश्च शैवशास्त्राणि च जानातीति वेदार्थशैवशास्त्रज्ञः एवंविधः पव्येको नाम द्विजोत्तमाऽभूजातस्तस्य पुत्रः केदारोऽस्ति स किविशिष्टः शिवस्य ईश्वरस्य पादौ शिवपादौ तयोरर्चनं पूजनं तस्मिन् शिवपादाचेंने रत आसक्तः ॥२॥
तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ॥ वृत्तरत्नाकरं नाम बालानां सुखबुद्धये ॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71