Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
सप्तभिश्च विराम: स्यात्तदा सा हरिणी स्मृता।स्फुरंति करयोःकंकणानि यस्याः सा ललित आलापो यस्याः सा । उक्तं च रत्नाकरे। रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा ॥३९॥ हरिणी च० अ० १७, ग० न, स, म, र, स, ल, ग, यतिः ६, ४, ७ ॥
यदा पूर्वो ह्रस्वः कमलनयने षष्ठकपरास्ततो वर्णाः पंच प्रकृतिसुकुमारांगि लघवः ॥ त्रयोऽन्ये चोपांत्याः सुतनु जघनाभोगसुभगे रसै रुदैर्यस्यां भवति विरतिः सा शिखरिणी ॥ ४० ॥ अथ शिखरिणीलक्षणमाह । यदा पूर्वो हस्व इति । हे सुतनु जघनाभोगसुभगे यदा पूर्वो वर्णों -हस्वो भवति । हे प्रकृतिसुकुमारांगि ततः षष्ठकपराः षष्ठतः पंच वर्णाः सप्तमाष्टमनवमदशमैकादशा लघवः संति । अन्ये उपांत्यास्त्रयो वर्णाश्चतुर्दशपंचदशषोडशा लघवो भवति । यस्यां रसैः षड्भी रुद्ररेकादशैविरतिर्भवेत् । हेसुतनु सा शिखरिणी कथिता । कमलवन्नयने यस्याः सा । प्रकृत्या स्वभावेन सुकुमाराण्यंगानि यस्याः। जघनयोराभोगस्तेन सुभगा। सुशोभना तनुर्यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । रसै रुद्रैश्छिन्ना यमनसमला गः शिखरिणी ॥ ४० ॥ शिवारणा । च० अ० १७, ग० य, म, न, स, भ, ल, ग, यतिः ६, ११॥. द्वितीयमलिकुंतले यदि पडष्टमं द्वादशं चतुर्दशमथ प्रिये गुरु गभीरनाभिह्रदे ॥ सपंचदशमंतिमं तदनु यत्र कांते यतिः करींद्रफणिभृत्कुलैर्भवति सुभ्र पृथ्वी हि सा॥४१॥ पृथ्वीलक्षणमाह। द्वितीयमिति । हे सुभु यदि द्वितीयसंख्याकं गुरु
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71