Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतबोधः। थे च उपेंद्रवज्रालक्षणम्।सीमंतः केशवेशो विद्यते यस्याः सा तत्संबुद्धौं। चंद्रवत्कातिर्यस्याः सा तत्संबुद्धौ । पक्षे चंद्रवत्कांता कमनीया या सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । अनंतरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ २३ ॥ उपजातिः च० अ० ११, प्रथमे तृतीये च चरणे इंद्रवज्रा द्वितीये चतुर्थे चोपेंद्रवज्रेत्यर्थः ॥
आख्यानकी स्यात्प्रकटीकृतार्थे यदींद्रवज्राचरणः पुरस्तात् ॥ उपेंद्रवज्राचरणास्त्रयोऽन्ये मनीषिणोक्ता विपरीतपूर्वा ॥२४॥
अथाख्यानकीलक्षणमाह।आख्यानकीति। हे प्रकटीकृतार्थे मनीपिणा विदुषा यदि इंद्रवज्राक्प्रथमचरणः स्यात् अन्ये त्रयश्चरणा उपेंद्रवज्रावत्संतितदा विपरीतपूर्वाख्यानकी विपरीताख्यानकीत्यर्थः। प्रकटीकृतोऽर्थः कामलक्षणो यया सा तत्संबुद्धौं । इयं वृत्तरत्नाकरे नोक्ता तथापि पिंगलादिभिराचार्यैहलायुधादावुक्तै॥२४॥आख्यानकी । च० अ० ११, प्रथमचरण इंद्रवज्रावत् अन्ये उपेंद्रवज्रावत् ॥
आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथांतिमम् ॥ दीर्घमिन्दुमुखि यत्र जायते तां वदंति कवयो रथोद्धताम् ॥२५॥
अथ रथोद्धतालक्षणमाह । आद्यमिति । हे इंदुमुखि कवयः तां रथोद्धतां वदति । कां यत्राधमक्षरमतस्तृतीयकं सप्तमं नवमं तथांतिमम् एकादशम् एते वर्णा दीर्घा द्विमात्रिका जायते।इंदुवन्मुखं यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । रानराविह रथोद्धता लगौ॥२५॥ रथोद्धता । च० अ० ११, ग० र, न, ल, ग, यतिः ७, ४ ॥
अक्षरं च नवमं दशमं चेद्व्यत्ययाद्भवति यत्र
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71