Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतबोधः । अगुरुचतुष्कं भवति गुरू द्वौ ॥धनकुचयुग्मे शशिवदनासौ ॥ ८॥ अगुर्विति । हे धनकुचयुग्मे यत्राद्यं चतुष्कं वर्णचतुष्टयम् अगुरु स्याञ्चत्वारो वर्णी लघवः सांत ततो द्वौ पंचमषष्ठौ गुरू दी! भवतस्तदा शशिवदना। चरणचतुष्टये इदं लक्षणम् असाविति संबंध: धनं कठिनं कुचयुग्मं यस्याः सा घनकुचयुग्मा तस्याः संबुद्धौ । तथा चोक्तं रत्नाकरे । शशिवदना न्यौ ॥ ८ ॥ शशिवदना । चर णाक्ष०६, ग० न, य॥ .
तुर्य पंचमकं चेद्यत्र स्याल्लघु बाले ॥ विद्वद्भिर्मूगनेत्रे प्रोक्ता सा मदलेखा ॥९॥
सप्ताक्षरजाती मदलेखालक्षणमाह । तुर्यामति । हे मृगनेत्रे याद तुर्य चतुर्थ पंचमकं पंचमं लघु स्यात् हे बाले नवयौवने विद्वद्भिः पण्डितैः सा मदलेखा प्रोक्ता। मृगस्य नेत्रे इव नेत्रे यस्याः सा मृगनेत्रा तस्याः संबुद्धौ । उक्तं रत्नाकरे । मसौ गः स्यान्मदलेखा ॥ ९॥ मदलेखा । चरणाक्षर ७, ग० म, स, ग ॥
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम् ॥ द्विचतुष्पादयोलस्वं सप्तमं दीर्घमन्ययोः ॥१०॥ अष्टाक्षरजातौ श्लोकलक्षणमाह । श्लोक इति । अन्ययोः प्रथमतृतीयपादयोः सप्तममक्षरं गुरु द्विमात्रकं भवति । सर्वत्र चतुर्वपि चरणेषु पंचमं वर्ण लघु स्यात् षष्ठं गुरु स्यात् । द्विचतुष्पादयोः द्वितीयचतुर्थचरणयोः सप्तमं वर्ण हवं ज्ञेयम् । ईदृग्विधे श्लोके पद्येऽनुष्टुबादयो भवंति ॥ १० ॥ पंचमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः॥ षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥ ११॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71