Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः ।
५
अथ पद्यलक्षणमाह । पंचममिति । एतत्पद्यस्य लक्षणं विजानीयात् । यत्र सर्वत्र चरणेषु पंचमं लघु भवति । द्विचतुर्थयोः द्वितीयचतुर्थचरणयोः सप्तममक्षरं लघु भवति सर्वत्र चरणेषु षष्ठम् अक्षरं गुरु भवति ॥ ११ ॥ पद्यं । चरणाक्ष० ८ गणनियमो नात्र ॥ आदिगतं तुर्यगतं पंचमकं चांत्यगतम् ॥ स्याद्गुरु चेत्तत्कथितं माणवकाक्रीडमिदम् ॥ १२ ॥ माणवकाक्रीडलक्षणमाह । आदिगतमिति । तदिदं माणवकाक्रीडं कथितं । कविभिरित्यध्याहार्यम् । आदिगतं प्रथमं तुर्यगतं चतुर्थ पंचमकं पंचमम् अंत्यगतम् अंत्यस्थितमष्टमं गुरु स्यात्तदिदं माणवकाक्रीडं बुधा विदंति । तथाचोक्तं रत्नाकरे | माणवकं भस्तलगाः ॥ १२ ॥ माणवकं । चरणाक्ष० ८ ग० भ, तं, ल, ग ॥ द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा ॥ तदा निवेदयंति तां बुधा नगस्वरूपिणीम् ॥ १३ ॥ अथ नगस्वरूपिणीलक्षणमाह । द्वितुर्येति । बुधाः पंडिताः तदानीं नगस्वरूपिणीं निवेदयंति। तदा कदा यदा द्वितीयं तुर्ये चतुर्थ षष्ठम् अष्टमम् अक्षरं गुरु प्रयोजितं गुरुसंज्ञकं भवति एतादृशीं तां नगस्वरूपिणीं निवेदयंति । तथाचोक्तं रत्नाकरे । प्रमाणिका जरौ लगौ ॥ १३ ॥ प्रमाणिका, नगस्वरूपिणीति वा । च० अ० ८, ग० ज, र, ल, गः ॥
.
+
सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदेवदैः ॥ विद्वदेवणावाणि व्याख्याता सा विद्युन्माला || १४ || अथ विद्युन्मालालक्षणमाह । सर्वे वर्णा इति । हे वीणावाणि विद्वद्वृदै: पंडितसमूहैः सा विद्युन्माला व्याख्याता । वीणायाः वाणीव वाणी यस्याः सा वीणावाणी तस्याः संबुद्धौ । विदुषां पंडितानां
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71