Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। द्वस्वो वर्णों जायते यत्र षष्ठः कंबुग्रीवे तद्वदेवाष्टमांत्यः ॥ विश्रामः स्यात्तन्वि वेदैस्तुरंगस्तां भाषते शालिनी छान्दसीयाः॥१७॥ एकादशाक्षरजातौ शालिनीमाह । ह्रस्व इति । हे तन्वि कृशांगि छांदसीयाः छंदसि कुशलास्तां शालिनी भाषते । तां कां हे कंबुग्रीवे । यत्र यस्यां षष्ठो वर्णो हस्वः तद्वदष्टमांत्यः नवमः ह्रस्वो जायते । यत्र वेदैश्चतुर्भिस्तुरंगैः सप्तभिर्विश्रामस्तां शालिनी भाषते ब्रुवते । कंबोः शंखस्य ग्रीवाबद्रीवा यस्याः सा तत्संबुद्धौ । कंबुग्रीवा त्रिरेखा स्यादित्यमरः।तदुक्तं रत्नाकरे । शालिन्युक्ता म्तौ तगौ गः ॥१७॥शालिनी । च० अ०११ ग०म, त,त, ग, ग, । यतिः ४,७॥ चत्वारः प्राक्सुतनु गुरखो द्वादशैकादशौ चेन्मुग्धे वर्णी तदनु कुमुदामोदिनि द्वादशांत्यौ ॥ तद्वच्चांत्यौ युगरसहयैर्यत्र कांते विरामो मंदाक्रांतां प्रवरकवयस्तन्वि तां संगिरते ॥ १८ ॥ चत्वारइति । हे सुतनु सुष्ठु तनुः कायो यस्याः सा तस्याः संबोधनं हे मुतनु प्रवरकवयः श्रेष्ठकवयः तां मंदाक्रांतां वदति । तां का चयदि यत्र यस्यां प्रागादौ चत्वारो वर्णा गुरवो भवति । हे मुग्धे च पुनः द्वादशैकादशौ वौँ गुरू भवतः । हे कुमुदामोदिनि च पुनः तदनु द्वादशात्यौ त्रयोदशचतुर्दशौ वर्णी गुरू भवतः च पुनः अंत्यौ तद्वद्भवतः।हेकांते च पुनः युगरसहयै श्चतुःषट्सप्तभिः क्रमेण विरामो भवति । प्रवरकवयस्तद्विदः ॥ १८ ॥ मंदाक्रांता । च० अ० १७ ग० म, भ, न, त, त, ग, ग, यतिः ४, ६, ७, ॥ मंदाक्रांतांत्ययतिरहिता सालंकारे भवति यदि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71