Book Title: Shrutbodh Vrittartankrou Granthou Author(s): Khemraj Krushnadas Publisher: Khemraj Krushnadas View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतबोधः। आदिमध्यावसानेषु भजसा यांति गौरवम् ॥ यरता लाघवं यांति मनौ तु गुरुलाघवम् ॥३॥ श्लोकादौ कस्मिंश्चिद्गणे पतिते शुभं कस्मिंश्चिद्गणे पतिते. चाशुभं भवतीत्यष्टगणनां लक्षणमाह । आदिमध्यावसानेषिति ॥ भजसाः भगणजगणासगणाः आदिमध्यावसाने गौरवं गुरुतां यांति। आदिश्च मध्यं च अवसानं च तानि तेषु।तथाहि।आदिगुरुभंगणःमध्यगुरुजंगणः अंत्यगुरुः सगणःायरताः यगणरगणतगणाः आदिमध्यावसानेषु लाघवं लघुतां यांति । तथाहि । आदिलघुर्यगणः मध्यलघू रगणः अन्त्यलघुस्तगणः । पुनः मनौ मगणनगणौ आदिमध्यावसानेषु गुरुलाघवं गुरुतां लघुतां च यातः।तथा च । सर्वगुरुमंगणः सर्वलघुनंगणः भवतीति । एतेषां देवताः फलानि च ग्रंथांतरे । मो भूमिः श्रियमातनोति य जलं वृद्धि र वह्निमति सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् । जः सूर्यो भयमाददाति विपुलं भेदुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥ ३ ॥ यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि ॥ अष्टादश द्वितीये चतुर्थके पंचदश सार्या ॥४॥ ॥ ॥ ॥ ॥ - यस्याः पाद इति । सा आर्या भवति । सा का यस्याः प्रथमे पादे द्वादश मात्राः स्युः तृतीये तथा द्वादश मात्रा भवंति । द्वितीयेऽष्टादश मात्रा भवंति।चतुर्थके पंचदश मात्रा भवंति सा आर्या॥४॥ आर्या । चरणेषु क्रमान्मात्राः- १२, १८, १२, १५ ॥ ॥ आर्यापूर्वार्धसमं द्वितीयमपि यत्र भवति हंसगते ॥ छंदोविदस्तदानीं गीति ताममृतवाणि भाषते ॥५॥ आर्यापूर्वार्धसमामात । हे अमृतवाणि छंदोविदस्तदानीं तां गीर्ति For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71